________________
संगीतरत्नाकरः तौ पताकाकृती पार्धन्यस्तावन्योन्यसंमुखौ ॥ २६२ ॥ पार्षमण्डलिनावुक्तावन्ये त्वाहुः स्वपार्धयोः । आविद्धभ्रामितभुजौ पार्चमण्डलिनाविति ॥ २६३ ॥ कक्षवर्तनिकेत्येतौ मन्वते नृत्तवेदिनः ।
इति पार्श्वमण्डलिनौ (२२)
भ्रान्तिविततत्वमूर्ध्वमण्डलिनोः स्वरूपमिति च तेषां मतम् । यत ऊर्ध्वमण्डलिनावेव चक्रवर्तनिकेति नृत्तवेदिनां प्रसिद्धौ भवतः ॥ २६०, २६१- ॥
इत्यूर्ध्वमण्डलिनी (२१) (सु०) ऊर्ध्वमण्डलिनोर्लक्षणमाह-भालस्थलमिति । तावुभौ करौ उरःप्रदेशात् भालस्थलमागत्य भालस्थलपार्श्वतां गतौ, मण्डलाकारेण स्थितौ विस्तृतौ च ऊर्ध्वमण्डलिनी करौ भवतः । मतान्तरमाह-ललाटे ति । अन्ये तु ललाटावधिपर्यन्तमनयोर्लक्षणमाहुः । एतौ चक्रवर्तनिकेति नृत्तवेदिनां प्रसिद्धौ भवतः ।। -२६०, २६१-॥
___ इत्यूमण्डलिनी (२१) (क०) पार्श्वमण्डलिनोद्वितीयलक्षणे-आविद्धभ्रामितभुजाविति । अत्राविद्धशब्देनावेष्टितकरणपूर्विका वर्तना गम्यते । तयोः स्वस्वपार्श्वयोओमितभुजावित्यनेन पार्श्वमण्डलिनोरन्वर्थता दर्शिता भवति॥२६२,२६३-॥
इति पार्श्वमण्डलिनी (२२) ___ (सु०) पार्श्वमण्डलिनोलक्षणमाह-ताविति । यत्र तावेव पताकाकृती पार्श्वन्यस्तौ अन्योन्यसंमुखौ पार्श्वमण्डलिनौ भवत: । मनान्तरमाह-अन्ये त्विति । अन्ये तु ; आचार्याः, स्वस्वपार्श्वयो: पूर्वोक्तविधिलक्षणवन्तौ आविद्धभ्रामितौ भुजौ ययोः, तथाविधौ पार्श्वमण्डलिनावित्याहुः । एतौ नृत्यवेदिन: कक्षवर्तिनिकेति मन्वते ॥ २६२, २६३- ॥
इति पार्श्वमण्डलिनौ (२२)
Scanned by Gitarth Ganga Research Institute