________________
सप्तमो नर्तनाध्यायः अधोमुखौ कटिक्षेत्रे स्थित्वा न्यश्चितकूर्परौ । पताकौ तिर्यगूज़ द्राग्गतौ गरुडपक्षकौ ॥ २५९ ॥ त्रिपताकाविमौ कैश्चिदुक्तौ न तु मुनेर्मतौ ।
इति गरुडपक्षकौ (२०) मालस्थलमुरोदेशात्माप्य तत्पार्धमागतौ ॥ २६० ॥ मण्डलभ्रान्तिविततापूर्ध्वमण्डलिनौ करौ। ललाटप्राप्तिपर्यन्तमन्ये लक्ष्मानयोर्जगुः ॥ २६१ ॥ चक्रवर्तनिकेत्येतौ प्रसिद्धौ नृत्तवेदिनाम् ।
__इत्यूर्ध्वमण्डलिनौ (२१)
हस्तौ भवतः । मतान्तरमाह-हस्तेति । केचित् अत्र समकालमेव हस्तप्रसारणमाहुः ॥ २५७-२५८ ॥
इति दण्डपक्षौ (१९) (सु०) गरुडपक्षकयोर्लक्षणमाह-अधोमुखाविति । पताको हस्तौ अधोमुखौ कटिभागे स्थित्वा, नतकूपरौ विशतौ तिर्यगूज़ च यदि शीघ्रं भवतः तौ गरुडपक्षको । मतान्तरमाह-त्रिपताकाविति । कैश्विदाचार्यैः त्रिपताकाभ्यां गरुडपक्षौ कार्यावित्युक्तौ, तौ मुनिना नाभ्युपगताविति ॥ २५९, २१९- ॥
इति गरुडपक्षकौ (२०) (क०) ऊर्ध्वमण्डलिनोर्लक्षणे---उरोदेशात्पार्श्व प्राप्य भालस्थलमागतावित्यन्वयः । अत्र वक्षोदेशाद्वयावर्तितकरणपूर्वकं वं स्वं पार्श्व प्राप्य ललाटप्रदेशमागतौ । ततो मण्डलवद्वान्त्या प्रसारितावूर्ध्वमण्डलिनाविति केषांचि. न्मतम् । अन्ये तु, अनयोः; ऊर्ध्वमण्डलिनोः । ललाटमाप्तिपर्यन्तं लक्ष्म जगुरिति ; तावतैवोर्ध्वमण्डलित्वस्य च निप्पन्नत्वादिति तेषामभिप्रायः । मण्डल
Scanned by Gitarth Ganga Research Institute