________________
७२
संगीतरत्नाकरः हस्तौ भणन्ति शोभेते चैतौ भाग्भ्यामनन्तरम् ।। २५६ ।।
___ इति पक्षप्रयोतकौ (१८) उपवक्षस्थलं हंसपक्षे गच्छति पार्थतः । सविलासोऽपरस्तिर्यक्प्रसृतश्चेल्लताकरः ॥ २५७ ॥ क्रमादशान्तरेणैवं दण्डपक्षौ तदा करौ । हस्तप्रसारणं त्वत्र युगपन्मेनिरेऽपरे ॥ २५८ ॥
इति दण्डपक्षौ (१९) एतावित्यूर्ध्वाङ्गुली च पराङ्मुखाविति तृतीयपक्षोक्तौ । प्राग्भ्यामित्युत्तानौ केचिदिति द्वितीयपक्षोक्ताभ्याम् । अत्र चकारः प्रारम्भामित्यनेन प्रथमपक्षोक्तयोः समुच्चयाथै योजनीयः प्राग्भ्यां चेति । तेनायमर्थः । कटीशीर्षन्यस्तायौ त्रिपताको प्रथमं पार्थाभिमुखाग्रौ कृत्वा तदनन्तरमुत्तानौ कृत्वा ततः परमूर्ध्वाङ्गुली पराङ्मुखौ च कृतौ चेच्छोभातिशयो भवतीति ॥ -२५५-२५६ ॥
इति पक्षप्रद्योतकौ (१८) (सु०) पक्षप्रद्योकयोर्लक्षणमाह-ताविति । तावेव पक्षवञ्चितौ पार्धाभिमुखाग्रं ययोः, तथाविधौ पक्षप्रद्योतकावित्युच्यते। मतान्तरमाह-उत्तानाविति। केचित्त उत्तानो पक्षवश्चितौ पक्षप्रद्योतकावित्याहुः । केचित् उभंगुली पराङ्मुखौ च हस्तौ पक्षप्रद्योतकाविति भणन्ति । अन्ये च पक्षप्रद्योतको प्रकृताभ्यां वश्चितकाभ्यामनन्तरं शोभां प्राप्नुत इति ॥ -२५५-२५६ ॥
इति पक्षप्रयोतको (१८) (सु०) दण्डपक्षयोर्लक्षणमाह- उपवक्षःस्थलमिति । हंसपक्षे हस्ते पार्श्वप्रदेशात् वक्षःस्थलसमीपं याति, अपरो हस्तो लताकरतामेत्य, सविलासः सन् तिर्यक् प्रसृतश्चेत् , यदा क्रमेण अङ्गान्तरेणाप्येवं भवति, तदा दण्डपक्षको
Scanned by Gitarth Ganga Research Institute