________________
संगीतरत्नाकरः कपोलांसललाटानां क्षेत्रे त्वन्यतमे स्थितौ । त्रिपताको करौ किंचित्तिर्यश्चौ संमुखौ मिथः ॥ २४४ ॥ अंसकूर्परयोः किंचिञ्चलतोरूर्वतस्तलौ । क्षणं भूत्वा प्रचलितौ ज्ञेयावुत्तानवश्चितौ ।। २४५ ॥ अंसकूपरयोः किंचित्पतनं मन्वते परे ।
____ इत्युत्तानवञ्चितौ (१४) पताको डोलितौ तिर्यक्पसृतौ तौ लताकरौ ॥ २४६ ॥ अनयोः करयोः केशवन्धयोश्च नितम्बयोः । त्रिपताकाकृति केचिदाचार्याः प्रतिजानते ॥ २४७ ॥
इति लताकरौ (१५) (क०) उत्तानवञ्चितयोर्लक्षणे-ऊर्ध्वतस्तलावित्यत्रोत्तानत्वं, प्रचलितावित्यत्र वञ्जितत्वं च द्रष्टव्यम् ॥ २४४, २४५- ॥
इत्युत्तानवञ्चितौ (१४) (सु०) उत्तानवञ्चितयोर्लक्षणमाह-कपोलेति । कपोलादीनामन्यतमे क्षेत्रे स्थितौ त्रिपताको हस्तौ, तिर्यक् गत्वा परस्परसंमुखौ अंसकूर्परयोः किंचित् चलतोः ऊर्ध्वतस्तलौ प्रचलितौ सन्तावुत्तानवञ्चिताख्यौ भवत: । केचित् अंसपरयोः किंचिन्नमनं मन्यन्ते ।। २४४, २४६- ॥
इत्युत्तानवचितौ (१४) (सु०) लताकरयोर्लक्षणमाह-पताकाविति । यत्र पताकाख्यौ हस्तौ, डोलितौ तिर्यक् प्रसृतौ भवतः, तदा लताकरौ स्तः। अनयोः करयो: केशबन्धयोः नितम्बयोश्च त्रिपताकाकृति केचिदाचार्या प्रतिजानते ॥ -२४६, २४७ ॥
इति लताकरौ (१५)
Scanned by Gitarth Ganga Research Institute