SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः नतोनतौ पद्मकोशौ शिथिलौ मणिबन्धयोः । स्वपार्श्वयोः पुरस्ताद्वा पल्लवाववदन्परे ।। २४१ ॥ पद्मकोशकरस्थाने पताकावपरे जगुः । इति पल्लवौ (१२) पार्श्वदेशोत्थितौ पार्थमस्पृशन्तौ गतौ शिरः ॥ २४२ ॥ नितम्बवत्केशदेशान्निष्क्रम्य च पुनः पुनः । पृथग्गतागतौ यौ तौ केशबन्धौ करौ मतौ ॥ २४३ ॥ इति केशबन्धौ (१३) पल्लवावित्युच्यते । मतान्तरमाह-शिथिलाविति । अत्र पताकस्थाने शिथिलौ त्रिपताकाविति केचिदाहुः । अन्ये तु पद्मकोशाख्यौ हस्तौ मणिबन्धयो: श्लथत्वेन नतोन्नतौ स्वपार्श्वयोः पुरस्ताद्वर्तमानौ पल्लवावित्याहुः । पद्यकोशस्थाने पताकाविति केचित् ॥ -२३९-२४१- ॥ इति पल्लवौ (१२) (क०) केशबन्धयोर्लक्षणे-नितम्बवदित्यतिदेशेनात्रापि क्रमेणोत्तानाधोमुखत्वाभ्यामित्येतदनुसंधेयम् । एवं पार्श्वदेशाच्छिरःपर्यन्तं गतौ तथा । केशदेशानिष्क्रम्य च पुनः पुनः पृथग्गतागताविति । यदैकः केशदेशानिर्गच्छति, तदा अन्यः केशदेशं प्रत्यागच्छति । एवं पौन:पुन्येन पृथग्गतागतौ यौ हस्तौ तौ केशबन्धाविति संमतौ ॥ -२४२, २४३ ॥ इति केशबन्धौ (१३) (सु०) केशबन्धयोर्लक्षणमाह-पार्श्वदेशेति । यत्र करौ पार्श्वदेशादुत्थाय पार्श्वमस्पृशन्तौ शिरःप्रदेशं गतौ प्राप्तौ, पूर्वोक्तनितम्बहस्तकवत् केशप्रदेशात् निःसृत्य मुहुर्मुहुः प्रत्येकं गतागतौ यौ हस्तौ तौ केशबन्धाविति ॥-२४२,२४३॥ इति केशबन्धौ (१३) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy