________________
संगीतरनाकरः उत्तानाधोमुखत्वाभ्यां क्रमेण स्कन्धदेशतः । पताको यदि निष्क्रम्य नितम्बक्षेत्रवर्तिनौ ॥ २३८ ॥ रेचकं कुरुतो हस्तौ नितम्बावुदितौ तदा ।
इति नितम्बौ (११) बाहू व्यावर्तितेनोवं प्रसार्य परिवर्तितः ।। २३९ ॥ स्वस्तिकाकृतितां नीतौ पताको पल्लवौ मतौ । शिथिलौ त्रिपताकौ तु केचिदत्र प्रचक्षते ॥ २४० ।।
(क०) नितम्बयोर्लक्षणे-उत्तानाधोमुखत्वाभ्यां क्रमेणेति । उत्तानाधोमुखत्वे क्रमेण भवतः । नैककालमेवेति मन्तव्यम् । अन्यथा द्वयोरुत्तानत्वं द्वयोरप्यधोमुखत्वं ताभ्यामित्युक्तं क्रमेणेति पदमनर्थकं स्यात् । हस्तयोस्तथाभावस्य विना क्रमेण संभवात् । एवं हि सार्थकत्वं भवति । पूर्व यस्योत्तानत्वं भवति तस्याधोमुखत्वं, यस्याधोमुखत्वं तस्योत्तानत्वमिति ज्ञायमान उत्तानाधोमुखत्वे क्रमेण संभवतः । न हस्तयोर्योगपद्येनोत्तानत्वमधोमुखत्वं चेति व्यवच्छेद्यस्य संभवात् । किंच क्रियावैचित्र्याच्छोभातिशयलाभोऽपि भवति ॥ २३८, २३८- ॥
___ इति नितम्बौ (११) (मु०) नितम्बयोलक्षणमाह-उत्तानेति । पताकहस्तौ क्रमेण उत्तानोऽधोमुखौ स्कन्धप्रदेशात् निःसृत्य, यदि नितम्बक्षेत्रे विद्यमानौ यदा वक्ष्यमाणरेचकं कुरुत:, तदा नितम्बाख्यौ हस्तकौ भवतः ॥ २३८, २३८-॥
इति नितम्बौ (११)
(सु०) पल्लवयोर्लक्षणमाह-बाहू इति । व्यावर्तितेनोपलक्षितौ पताकाख्यौ बाहू ऊर्ध्वं प्रसार्य, परिवर्तितेन स्वस्तिकाकृतितां नीतौ प्रापितौ पताको
Scanned by Gitarth Ganga Research Institute