________________
सप्तमो नर्तनाध्यायः प्रसारितोत्तानतलावुच्येते रेचितौ करौ ॥ २३५ ॥ अथवा रेचितौ प्रोक्तौ हंसपक्षौ द्रुतभ्रमौ । यद्वा रेचितयोर्लक्ष्म लक्षणे मिलिते इमे ॥ २३६ ॥ प्रयोज्यौ तौ नृसिंहस्य दैत्यवक्षोविदारणे ।
इति रेचितौ (९) एकेन चतुरश्रेण तौ स्यातामर्धरेचितौ ॥ २३७ ॥
इत्यर्धरेचितौ (१०) विशेषमाह-पताकाविति । प्रथमं पताको हस्तकौ व्यावृत्तपरिवर्तितौ विधाय, ततः भ्रान्त्वा प्रसारणं चात्र केचित् विशेषमाहुः । मतान्तरेण अन्यथा लक्षयति-मध्येति | मध्ये प्रसारिते अष्ठे ययोस्तथाविधौ सर्पशीर्षी हस्तौ रेचितस्वस्तिको चेत्तदा सूच्यास्ययोर्लक्षणं केचित्कथयन्ति ॥ २३२-२३४-॥
___ इति सूच्यास्यौ (८) (क०) रेचितयोर्लक्षणे- यद्वा रेचितयोर्लक्ष्म लक्षणे मिलिते इमे इति । इमे पूर्वोक्ते द्वे लक्षणे मिलिते सती रेचितयोर्लक्ष्मेति तृतीयं लक्षणम् । तौ तृतीयलक्षणलक्षितौ रेचितौ । नृसिंहस्य दैत्यवक्षोविदारणे प्रयोज्याविति तयोरेव विनियोगः ।। -२३५, २३६. ॥
इति रेचितौ (९) (सु०) रेचितयोलक्षणमाह-प्रसारितेति । प्रसारितमुत्तानतलं ययोस्तथाविधौ करौ रेचिताविच्युते । अथवा द्रुतभ्रामिती ; शीघ्रं भ्रामितौ हंसपक्षौ रेचिताविति । यद्वा मिलिते इमे लक्षणे रेचितयोर्लक्षणे ज्ञातव्ये । तौ नृसिंहस्य दैत्यवक्षोविदारणे प्रयोज्यौ ॥ -२३५, २३६- ॥
___ इति रेचितौ (९) (सु०) अर्धरेचितयोर्लक्षणमाह-एकेनेति । पूर्वोक्तरेचितहस्तकयोर्मध्ये एककर: चतुरश्चेत्, तदा अर्धरेचितौ ॥ -२३७ ॥
इत्यर्धरेचितौ (१०)
Scanned by Gitarth Ganga Research Institute