________________
६४
संगीतरत्नाकरः मध्यमासंगतागुष्ठौ चतुरश्रप्रदेशगौ । सर्पशीर्षों क्रमात्तिर्यक्रसरन्तौ प्रदेशिनीम् ॥ २३२ ॥ बहि प्रसारितां धत्तो यदा सूचीमुखौ तदा । पताको प्रथमं कायौं व्याहत्तपरिवर्तितौ २३३ ॥ भ्रान्त्वा प्रसारणं चात्र विशेष केचिदूचिरे । मध्यप्रसारितागुष्ठौ सर्पशीर्षाकृती करौ॥ २३४ ॥ रेचितस्वस्तिको केचिदूचुः सूच्यास्यलक्षणम् ।
इति सूच्यास्यौ (6) संभ्रमः । तेन वलनं वक्रतया गमनम् ; तस्मिन् ॥ २३०, २३१ ॥
___ इत्याविद्धवक्त्रौ (७) (सु०) आविद्धवक्त्रयोर्लक्षणमाह--भुजाप्रयोरिति । भुजाग्रेषु कूर्परांसेषु सविलासेषु सक्तौ द्वौ पताको करौ व्यावृत्ति विधाय, यदि अधस्तले भवेतां तदा
आविद्धवक्त्रौ हस्तौ उदितौ । कृतिनः नृत्तशास्त्रज्ञाः, तयोः विक्षेपवलने; विक्षेपेण संभ्रमेण कार्यव्यग्रतया वलने गमने प्रयोग इत्याहुः ॥ २३०, २३१ ॥
इत्याविद्धवक्त्रौ (७) (क०) सूच्यास्ययोलणे-चतुरश्रपदेशगाविति । अत्र चतुरश्रयोः प्रदेशो वक्षसोऽष्टाङ्गुलान्तरो वक्षःपुरोदेशः । तत्र गताविति तथोक्तौ । सर्मशीर्षों कमात्स्वयं तिर्यक्प्रसरन्तौ बहिःप्रसारितां प्रदेशिनीं यदा धत्तस्तदा सूचीमुखावित्यन्वयः ॥ २३२-२३४- ।।
___इति सूच्यास्यौ (6) (सु०) सूच्यास्ययोर्लक्षणमाह-मध्यमेति । मध्यमया संगतौ संलग्नौ, अङ्गुष्ठौ ययोः, तथाविधौ चतुरश्रप्रदेशगौ सर्पशीर्षों, क्रमात् तिर्यक् प्रसरन्तौ बहिःप्रसारितां प्रदेशिनी यदा धत्तः, तदा सूच्यास्यौ भवतः । मतान्तरेण
Scanned by Gitarth Ganga Research Institute