________________
सप्तमो नर्तनाध्यायः
भुजाग्रयोः कूर्परयोरंसयोः सविलासयोः ।
सतोः पताकौ व्यावृत्तिं विधाय भवतो द्रुतम् ॥ २३० ॥ अधस्तलौ चेदाविद्धवक्त्रौ हस्तौ तदोदितौ । विक्षेपवलने प्राहुः प्रयोगं कृतिनस्तयोः ।। २३१ ॥ इत्याविद्धत्रस्त्रौ (७)
६३
I
परिवर्तने कर्तव्य इति नाट्याचार्यसंप्रदायोऽवगन्तव्यः । किंचात्र पद्मकोशयोः क्रियायां क्रमादित्युच्यते, तत्र पताकस्वस्तिकस्य पद्मकोशयोश्च वचनक्रमेणैव क्रियाक्रमस्यावगतत्वात्तदर्थमनर्थकं क्रमग्रहणं पद्मकोशयोर्व्यावृत्तिपरिवर्तनक्रियाक्रमस्यापि पाठक्रमेणैवावगतत्वात्तदर्थमप्यनर्थकं सदूर्ध्वस्थयोः पद्मकोशयोरेकस्य व्यावृत्तिमितरस्य परिवृति तथा परिवर्तितस्य व्यावृत्तिमव्यावर्तितस्य परिवर्तनं च क्रमात्कृत्वेतज्ज्ञापयतीति ग्रन्थकाराभिप्रायो वेदितव्यः ॥ -२२४–२२९ ॥
इत्यरालखटकामुखौ (६)
(सु०) मरालखटकामुखयोर्लक्षणमाह-पताकेति । पताकस्वस्तिका - नन्तरं पूर्वोक्तव्यावृत्तिपरिवर्तने, तत ऊर्ध्वायौ ऊर्ध्वमुखौ, पद्मकोशौ च व्यावृत्तिपरिवर्तने क्रमात्कृत्वा, यत्र वामम्; वामहस्तमुत्तानमरालं कुर्यात्, अन्यं खटकामुखं च अधोमुखं कुर्यात् । तत: चतुरश्रः, अथवा स्वस्तिकेन, यद्वा अरालौ करौ कृत्वा, खटकामुखौ द्वौ करौ स्यातां तदा अरालखटकमुखौ । असौ वणिजां, सचिवादीनां वितर्के प्रयुज्यते । मतान्तरमाह - अन्ये त्विति । अन्ये आचार्याः, खटकामुखः करः पूर्वाभिमुख: अग्रे तिष्ठन्, अन्यस्तु कर: अराल: अत्युन्नताप्र: तिर्यक्प्रदेशे किंचित्प्रसारितः, द्वावपि करौ पार्श्वत्र्यत्यासेन स्वपार्श्वे वा वक्ष्यमाणतलान्तरौ स्थितौ सन्तौ मरालखटकामुखौ भवेतामिति ॥ -२२४-२२९ ॥ इत्यरालखटका मुखौ (६)
(क०) आविद्धवक्त्रयोर्विनियोगे - विक्षेपवलन इति । विशेष:
Scanned by Gitarth Ganga Research Institute