________________
६२
संगीतरत्नाकरः ऊर्ध्वास्यौ पद्मकोशौ च व्यात्तिपरिवर्तने । कमात्कृत्वा यत्र वाममुत्तानारालमाचरेत् ॥ २२५ ॥ खटकामुखमन्यं वाधोमुखं चतुरश्रतः । स्वस्तिकेनाथवा यद्वा कृत्वारालौ करावुभौ ॥ २२६ ॥ खटकामुखसंज्ञौ तावरालखटकामुखौ । वणिजां सचिवादीनां वितऽसौ प्रयुज्यते ॥ १२७ ॥ अन्ये त्वाहुरुरोग्रस्थः प्राङ्मुखः खटकामुखः । अरालः पोन्नतापोऽन्यस्तिर्यगीषत्मसारितः ॥ २२८ ॥ पार्श्वव्यत्ययतो यद्वा स्वपार्थे चेत्करौ स्थितौ । तलान्तरौ तदा स्यातामरालखटकामुखौ ।। २२९ ।।
इत्यरालखटकामुखौ (६) पताकहस्तयोः स्वस्तिकमित्यनेन मणिबन्धकृतः स्वस्तिको गम्यते । विशेषानभिधानात् । व्यावृत्तिपरिवर्तने इत्यत्र कृत्वेत्यनुषञ्जनीयम् । ततः पद्मकोशाविति द्विवचनोपादानेन स्वस्तिकत्वं तयोर्नेष्यत इति ज्ञायते । अतस्तयोयावृत्तिपरिवर्तने कमात्कृत्वेत्यन्वयः । अत्रापि पताकस्वस्तिकवदेव पद्मकोशयोरपि स्वस्तिकं कृत्वा व्यावृत्तिपरिवर्तनयोः क्रियमाणयोन चारुतातिशय इति मत्वा, अभिनवगुप्तपादैर्नलिनीपद्मकोशोक्तवर्तना कर्तव्येत्यवधारितम् । सा च यथा
" अन्योन्यसंमुखौ सन्तौ संश्लिष्टमणिबन्धको । पद्मकोशौ पृथक्प्राप्तौ व्यावृत्तिपरिवर्तने ॥
नलिनीपद्मकोशौ स्तः" इति वक्ष्यमाणनलिनीपद्मकोशानुगुणलक्षणानुसारेणात्र पद्मकोशयोावृत्ति
Scanned by Gitarth Ganga Research Institute