________________
६१
सप्तमो नर्तनाध्याय: अश्लिष्टहंसपक्षाभ्यां स्वस्तिकः स्वस्तिकौ करौ ॥ २२२ ॥
इति स्वस्तिकौ (४) विप्रकीर्णौ तु तावेव सहसा स्वस्तिके च्युते । नीचाग्रावुन्नतायौ वा कुचाभ्यां पुरतः स्थितौ ।। २२३ ।। पराङ्मुखौ हंसपक्षौ विप्रकीरें जगुः परे ।
इति विप्रकीर्णो (५) पताकस्वस्तिकं कृत्वा व्यावृत्तिपरिवर्तने ॥ २२४ ॥ तत: त्र्यश्री विषमौ स्थितौ यौ, तौ हंसपक्षौ परस्परसंमुखतलौ जातौ चेत् , तदा तलमुखौ भवतः । अनयोविनियोगमाह-बुधैरिति । बुधैः, तौ तलमुखौ मधुरे मर्दलध्वनौ ; मृदङ्गनादे प्रयोगमभिदधाते ॥ २२१, २२१- ॥
इति तलमुखौ (३) (सु०) स्वस्तिकयोर्लक्षणमाह--अश्लिष्टेति । अश्लिष्टाभ्याम् असंयुक्तहस्तकाभ्यां पूर्वोक्तः स्वस्तिकः कृतश्चेत्, तदा स्वस्तिकाख्यौ हस्तौ भवतः ॥ -२२२ ॥
इति स्वस्तिकौ (1) (सु०) विप्रकीर्णयोर्लक्षणमाह-विप्रकीर्णाविति । तावैव स्वस्तिको सहसा च्युतौ सन्तौ विप्रकीर्णावित्युच्यते । मतान्तरेणान्यथा लक्षयतिनीचाप्राविति । नीचमनं ययोः, तथाविधौ उन्नतायौ यदा कुचाभ्यां पुरस्तात् विद्यमानौ हंसपक्षौ पराङ्मुखो असंमुखौ चेत्, विप्रकीर्णावित्यन्ये अवादिषुः ॥ २२३, २२३- ॥
इति विप्रकीर्णो (५) । (क०) अरालखटकामुखयोर्लक्षणे- पताकस्वस्तिकं कृत्वेति ।
Scanned by Gitarth Ganga Research Institute