________________
संगीतरत्नाकरः चतुरश्रीकृत्य पाण्योः कृतयोंईसपक्षयोः । उत्तानोऽधो व्रजत्येको वक्षोऽन्यो यात्यधोमुखः ॥ २१८ ॥ यदा स्यातां तदोवृत्तौ तालसन्तनिरूपणे । तावेव तालवृन्ताख्याववदन् नृत्तकोविदाः ॥ २१९ ॥ प्राङ्मुखौ हंसपक्षाख्यौ व्यावृत्तिपरिवर्तितौ । जयशब्दे प्रयोक्तव्यावुद्वृत्तौ मेनिरे परे ॥ २२० ॥
इत्युवृत्तौ (२) भूत्वोवृत्तौ स्थितौ व्यश्री हंसपक्षौ स्वपाईयोः । जातौ मिथः संमुखस्थतलौ तलमुखौ मतौ ॥ २२१ ॥ बुधैरभिदधाते तो मधुरे मर्दलध्वनौ ।
इति तलमुखौ (३) (क०) उद्वृत्तहस्तयोद्वितीयलक्षणे-व्यावृत्तपरिवर्तिताविति । व्यावृत्तोऽन्तर्वर्तितः, परिवर्तितो बहिर्वर्तित इत्यर्थः ॥ २१८-२२० ॥
इत्युदात्तौ (२) (सु०) उवृत्तयोर्लक्षणमाह-चतुरश्रीकृत्येति । द्वौ हस्तौ चतुरश्रीकृत्य, तत: तयोः हंसपक्षीकृतयोः मध्ये एक उत्तान: सन् यद्यधो गच्छति, अपर अधोमुखः सन् वक्षःप्रदेशमागच्छति, तदा उद्वृत्ताख्यौ हस्तौ भवतः । एतौ तालवृन्ताभिनये नियुज्यते । नृत्तकोविदा: तावेव तालवृन्ताख्यावित्यवदन् । मतान्तरमाह-प्राङ्मुखाविति | सव्यापसव्यभ्रमणे व्यावृत्तपरिवर्तितेन त्यक्तौ हंसपक्षौ उवृत्ताविति परे मेनिरे । अनयोविनियोगस्तु-जयशब्दे प्रयोक्तव्याविति ॥ २१८-२२० ॥
इत्युत्तौ (२) (सु०) तलमुखयोर्लक्षणमाह-भूत्वेति । यत्र हस्तौ उदृत्तौ भूत्वा,
Scanned by Gitarth Ganga Research Institute