________________
सप्तमो नर्तनाध्यायः विच्युतः स्वस्तिकस्तद्वद्वक्षःस्थलविदारणे । सर्पशीर्षों हंसपक्षस्थानेऽस्मिन्नपरे जगुः ॥ २१५ ॥ अपरेऽभ्युपजग्मुस्तं स्वस्तिकेन विना कृतम् ।
___ इति वर्धमानः (१३)
इति त्रयोदशसंयुतहस्ताः । पुरोमुखौ समस्कन्धकूपरौ खटकामुखौ ॥ २१६ ॥ स्थितौ वक्षःपुरोदेशे वक्षसोऽष्टाङ्गुलान्तरे । चतुरश्राविति मोक्तौ स्रगाद्याकर्षणे करौ ॥ २१७ ॥
. इति चतुरश्रौ (१) कपाटेति । एष कपाटोद्धाटने कार्यः । यदा यिच्युतः सन् स्वस्तिकत्वमाप्नोति, तदा वक्षःस्थलविदारणे प्रयुज्यते । मतान्तरमाह-सर्पशीर्ष इति । अपरे आचार्याः, अस्मिन् वर्धमाने हंसपक्षस्थाने सर्पशीर्षमाहुः । परे त्वाचार्याः तं वर्धमानं स्वस्तिकेन विना अभ्युपजग्मुः ॥ २१४, २१५- ॥
इति वर्धमानः (१३)
इति त्रयोदशसंयुतहस्ताः । (क०) नृत्तहस्तेषु चतुरश्रयोर्लक्षणे-पुरोमुखाविति । प्रयोक्ता यदिङ्मुखोहस्तयोरपि तद्दिङ्मुखत्वमेव पुरोमुखत्वं द्रष्टव्यम् । न विन्द्रदिङ्मुखत्वं प्रयोक्तृसंमुखत्वं वा ॥ २१६०, २१७ ॥
इति चतुरश्रौ (१) (सु०) अथ त्रिंशन्नृत्तहस्तान् लक्षयति-पुरोमुखाविति । प्रागभिमुखौ समानस्कन्धकूपरौ पूर्वोक्तखटकामुखौ वक्षसोऽष्टादशाङ्गुलन्तरे वक्षःपुरोदेशे वर्तमानौ चतुरश्राख्यौ करौ भवतः । तयोविनियोगस्तु--स्रगाद्याकर्षणे कार्यों ॥ २१६-, २१७ ॥
इति चतुरश्रौ (१)
Scanned by Gitarth Ganga Research Institute