________________
संगीतरत्नाकरः सम्यक्च रथापिते तथ्यमिदमित्यभिभाषणे ॥ २१० ॥ प्रथमं गजदन्तं तु निषधं केचिदूचिरे । स शौर्यधैर्यगाम्भीर्यगर्वादिषु मतस्तथा ॥ २११ ॥
इति निषधः (११) उपर्युपरि विन्यस्तौ यत्रान्योन्यमधोमुखौ । ऊर्ध्वाङ्गुष्ठौ पताकाख्यौ करौ स मकरः स्मृतः ॥ २१२ ।। स नक्रमकरादीनां क्रव्यादद्वीपिनामपि । सिंहादीनामभिनये नदीपूरस्य चेष्यते ॥ २१३ ॥
इति मकरः (१२) हंसपक्षौ स्वस्तिकत्वं प्राप्तौ यदि पराङ्मुखौ । वर्धमानस्तदा हस्तः कपाटोद्घाटने भवेत् ।। २१४ ॥
सम्यग्ग्रहणे ; निष्पेषणे ; सम्यक्स्थापिते ; इदं तथ्यमित्यभिभाषणे च कार्यः । मतान्तरमाह-केचिदिति । केचित् आचार्याः, प्रथमं तु गजदन्तं निषधमाहुः । स: शौयधैर्यगाम्भीर्यगर्वादिषु प्रयुज्यते ॥ -२०९-२११ ॥
___ इति निषधः (११) (सु०) मकरं लक्षयति-उपरीति । यत्र पताको उपर्युपरि विन्यस्तो अन्योन्यमधोमुखौ ऊर्ध्वाङगुष्ठौ च क्रियेते स मकरः । अस्य विनियोगमाहस इति । स ; मकर: नक्रमकरादीनां जलजन्तूनाम् , क्रव्यादद्वीपिनां सिंहादीनां मांसभक्षिणाम् , नदीपूरस्य वाप्यादेरभिनयप्रदर्शने च कार्यः ॥ २१२, २१३ ॥
इति मकर: (१२) (सु०) वर्धमानं लक्षयति-हंसपक्षाविति । यत्र हंसपक्षौ स्वस्तिकत्वं नीती, करौ च पराङ्मुखौ भवतः, स वर्धमानः । अस्य विनियोगमाह
Scanned by Gitarth Ganga Research Institute