________________
सप्तमो नर्तनाध्यायः वक्षसोऽभिमुखौ सन्तौ शुकतुण्डावधोमुखौ । कृत्वा नीतावधो यत्र सोऽवहित्थोऽभिधीयते ॥ २०८ ॥ दौर्बल्यौत्सुक्यनिःश्वासगावकार्येष्वसौ भवेत् ।
इत्यवहित्थः (१०) मुकुलस्य कपित्थेन वेष्टनानिषधो भवेत् ॥ २०९ ॥
शास्त्रार्थसम्यग्ग्रहणे स स्यान्निष्पेषणे तथा। स्यार्थस्य निर्वाहार्थमभिनये नृत्तस्य संनिपत्योपकारकाङ्गत्वं दर्शयितुं चेति मन्तव्यम् ।। -२०४-२०७ ॥
इति गजदन्तः (९) (सु०) गजदन्तं लक्षयति-स्कन्धेति । यत्र सर्पशिरसौ करौ स्कन्धकूर्पयोः मध्यप्रदेशं यदा दधाते तदा गजदन्तः । मतान्तरमाह-पर इति । परे; आचार्या: आकुञ्चितौ कूर्परौ ययोः, तथाविधौ स्कन्धदेशे वर्तमानौ अन्योन्याभिमुखौ सर्पशीर्षको लक्ष्म जगुः । अस्य विनियोगमाह-एष इति । एषः; गजदन्तः गतागतयुतः सन् शैलोत्पाटने, वधूनां वराणां च विवाहस्थाननयने, स्तम्भग्रहणे, अतिभारे च कार्यः ॥ -२०४-२०७ ॥
____ इति गजदन्तः (९) (सु०) अवहित्थं लक्षयति-वक्षस इति । यत्र शुकतुण्डाख्यौ हस्तो पूर्व वक्षःसंमुखौ, पश्चादधोमुखौ कृत्वा, अधःप्रदेशे च यत्र नीतौ सोऽवहित्थः । अस्य विवियोगस्तु-दौर्बल्ये ; औत्सुक्ये ; नि:श्वासे ; गात्रकार्ये च कार्यः ॥ २०८, २०८-॥
इत्यवहित्थः (१०) (सु०) निषधं लक्षयति-मुकुलस्येति । कपित्थेन संवेष्टनात मुकुल एव निषधो भवति । अस्य विनियोगमाह-शास्त्रार्थेति । सः ; निषधः, शास्त्रार्थादेः
Scanned by Gitarth Ganga Research Institute