________________
सप्तमो नर्तनाध्यायः स्पृशत्करिकराकारः पार्थयोश्चेल्लताकरः। उन्नतो दोलितोऽन्यस्तु कर्णस्थः खटकामुखः॥ २४८ ॥ त्रिपताकोऽथवा यत्र करिहस्तममुं विदुः । नन्वन्यहस्तवत्कस्मानात्र द्विवचनं कृतम् ॥ २४९ ॥ ब्रूमो यत्रैकशब्देन सजातीयावुभौ करौ । उक्तौ तत्र द्विवचनं घटवच्चतुरस्रवत् ॥ २५० ॥ भिन्नशब्दौ विजातीयौ यो वा द्विवचनं तयोः । यथा घटपटौ स्यातामरालखटकामुखौ ॥ २५१ ॥
(क०) करिहस्तस्य लक्षणे-स्पृशत्करिकराकार इति । करिणः करः करिकरः । स्पृशंश्चासौ करिकरश्च, तस्याकार इवाकारो यस्येति बहुव्रीहिः । यथा करी स्वकरेण पार्श्वस्थितद्रुमादि स्पृशति, तदा पार्श्वप्रसारितस्य तत्करस्य य आकारस्तमनुकुर्वाण इत्यर्थः । अत्र चतुराश्रादयो नृत्तहस्ताश्चतुरश्रावित्येवं द्विवचनेनैवोद्दिष्टा । तथैव लक्ष्यन्ते लक्षयिष्यन्ते च नृतहस्तत्वाविशेषेऽप्ययं करिहस्ताविति नोद्दिष्टः । किंतु करिहस्तश्चेत्येकवचनेनोद्दिष्टः । तथैव ‘करिहस्तममुं विदुः' इति लक्ष्यते च । तत्कथमुपपद्यते ? इत्यभिप्रायेण पृच्छति-नन्वन्यहस्तवदिति ।
___ अत्र द्विवचनाश्रयणे सजातीयार्थवाचकयोरेकरूपयोः शब्दयोरेकशेषश्चतुरश्रावित्यादिषु निमित्तत्वेन स्वीकृतः । तथा विजातीयार्थवाचकयोभिन्नरूपयोः शब्दयोस्तु द्वन्द्वः, 'अरालखटकामुखौ' इत्यत्र निमित्तत्वेन स्वीकृतः। करिहस्त इस्यत्र तु द्वन्द्वैकशेषयोरेकतरासंभवाद्विवचनानुपपत्तौ सत्यामेकवचनमेव सम्यगाश्रितमिति प्रतिपादयिष्यन् परिहरति-ब्रमो यत्रेत्यादिना । सजातीयौ चरश्रत्वाद्याकारेण समानजातीयावुभौ करावेकशब्देन चतुरश्रादिकशब्देन यत्रोक्तौ तत्र घटवत् , घटश्च घटश्च घटाविति । यथा चतुरश्रवत् ,
Scanned by Gitarth Ganga Research Institute