________________
संगीतरत्नाकरः
अवगाढं प्रवृत्तं च तद् द्विधेति निरूपितम् ॥ १०८ ।। आद्यमारोहिवर्णेन प्रवृत्तमवरोहिणा । न्यासापन्याससंन्यासविन्यासानां तु कुत्रचित् ॥ १०९ ॥ न्यासोऽस्यांशेऽस्य संवादिन्यनुवादिनि वा भवेत् । अनन्तरस्वरैरेकान्तरितैर्वा समापनम् ॥ ११० ॥ विदारीणां भवेदवेत्यभ्यधत्त विशाखिलः । अन्यत्र न्यासमपन्यासमंशं संवादिनं तथा ॥ १११ ॥ उपक्रम्य चतुर्धा स्यादारोहो वावरोहणम् ।
वैहायसं विधातव्यं मात्रोपरि चतुष्कले ॥ ११२ ॥ विदारिका इति । तत् ; वृत्तम् । अवगाहं प्रवृत्तं चेति द्विधा निरूपितम् । आरोहिणा वर्णेन आद्यमवगाढम् । अवरोहिणा वर्णेन प्रवृत्तमिति तयोर्ल. क्षणम् । न्यासेत्यादि । अस्य वृत्तस्य न्यासो रागन्यासादिप्वंशे वा कुचिद्भवति । अस्य संवादिन्यनुवादिनि वा भवेदिति । अस्येति । अंशम्य ॥ १०८, १०९. ॥
(मु०) वृत्तलक्षणमाह---वृत्तमिति | विदारीसमुदायो वृत्तमित्युच्यते । तत; वृत्तं द्विविधम् । अवगाढं प्रवृत्तं चेति । आरोहिवर्णेन विरचितमवगाढम् । अवरोहिवर्णेन विरचितं प्रवृत्तमिति । अस्य वृत्तस्य गगजनकजातेयासापन्याससंन्यासविन्यासस्वराणामेकस्मिन्नंशस्वरे वा अंशस्य संवाद्यनुवादिनि वा न्यासः समाप्तिः भवेत् ॥ १०८, १०९-॥
(क०) विशाखिलमतेन विदारीणां न्यासमाह -- अनन्तरस्वरैरित्यादि । अनन्तरस्वरैः; अंशस्वरसंनिहितैः । एकान्तरितैः; अंशस्यैकान्तरितैः । समापनम् ; न्यासः । अत्रेत्यादि । अत्र ; वृत्ते । आरोहणमवरोहणं वा न्यासादिषु चतुर्वेकतमोपक्रमेण चतुर्धा भवति ।
Scanned by Gitarth Ganga Research Institute