________________
पच मस्तालाध्यायः
गुर्वन्ते चेति मात्रैका तच्च मात्रासमाप्तिकम् । farmsgrat मात्रा द्विगुणा तु चतुष्कला ॥ १०६ ॥ मात्रापूर्वेदले कार्यों विविधो मुखसंज्ञकः । पश्चिमा प्रतिमुखं विविध वृत्तसंयुतः ।। १०७ ।। वृत्तं तित्रतत्रो वा पञ्च षड्ढा विदारिकाः ।
६७
गुरुद्वन्द्वं लघुद्वयम् अन्ते गुरु चेत्येका मात्रेति योजना । तच्चेति; एककलोलोप्यकम् । मात्रासमाप्तिकमिति; मात्रायां समाप्तिर्यस्येति व्यधिकरणो बहुव्रीहिः । एकमात्रयैव समाप्यत इत्यर्थः । द्विकल इत्यादि । द्विकल उल्लोप्यके, अष्टकला अष्टौ गुरव एका मात्रा भवेत् । अथवा द्विकले मात्रा अष्टकला अष्टौ कला यस्याः सा तथोक्ता । चतुष्कल उल्लोप्यके तु मात्रा द्विगुणा । द्विकलमात्रापेक्षया द्विगुणा । षोडशकलेत्यर्थः । मात्रापूर्वदल इति । त्रिविधस्याप्युल्लोप्यकस्य मात्रायाः पूर्वदले पूर्वार्ध एक कलस्य गुरुद्वये द्विकलस्य गुरुचतुष्टये चतुष्कलस्य गुर्वष्टके विविधः कार्यः । 'विविधो द्विविदारीकः' इत्युक्तलक्षणो गीताङ्गविशेषः । स एष मुखसंज्ञकः । पश्चिमार्थे वृत्तसंयुतः कृतो विविधः प्रतिमुख इत्युच्यते ॥ १०५-१०७ ॥
(सु०) उक्लोप्यकं विभजते-भेदैरिति । उल्लोप्यकस्य त्रयो भेदाः । एककलं, द्विकलं, चतुष्कलमिति । एतानि लक्षयति — भवेदित्यादिना । उल्लोप्यके गुरुद्वयं लघुद्वयम् अन्ते गुरुदेका मात्रा । तच्च ; एककलोलोप्यकमपि, मात्रया समाप्यते ; द्विकले अष्टाभिः कलाभिरेका मात्रा ; चतुष्कले द्विगुणा षोडशकला मात्राः स्थाप्य, तेषु मात्रायाः पूर्वार्धे मुखसंज्ञको विविधः द्विविदारीकः कर्तव्यः । पश्चिमा वृत्त संयुतो विविधः प्रतिमुखसंज्ञकः कार्यः ॥ १०५ - १०७ ॥
( क ० ) वृत्तस्य स्वरूपमाह — वृत्तं तिस्रश्चतस्रो वा पञ्च षड़ वा
Scanned by Gitarth Ganga Research Institute