________________
संगीतरनाकरः भेदैरेककलायैः स्यादुल्लोप्यकपपि द्विधा । भवेदेककले तस्मिन् गुरुद्वन्द्वं लघुद्वयम् ॥ १०५ ॥
(क०) अस्य प्रस्तारो यथा-गुरुचतुष्टयात्मकान् षट्पादभागान् लिखित्वा तदधः प्रथमपादभाग आनिविप्रान् , द्वितीये आनिविसमित्येतान् लिखेत् । इत्येकं वस्तु । एवं चत्वारि वस्तूनि गीत्वा, यथाक्षरोत्तरेणोपवर्तनं गायेत् । ततः पूर्ववत्पञ्चमं वस्तु लिखेत् । ततो यथाक्षरोत्तरेण तालिकां शीर्षकं च लिखेत् । एवमुपवर्तनतालिकाशीर्षकसहितपञ्चवस्तुका शाखा । तत एवमेव प्रतिशाखा । शाखापश्चिमार्धस्य प्रतिशाखात्वे तु पञ्चवस्तुके पञ्चवस्तुकां शाखां गीत्वा तृतीयवस्तूत्तरार्धादिसार्धवस्तुद्वयं प्रतिशाखां कुर्यात् । यथा त्रिषु पादभागेषु द्वादशगुरुन् लिखित्वा तदध आनिविशान् , आताविशान् , आनिविसांश्च लिखेत् । इति तृतीयवस्तुत्तरार्धम् । ततः पूर्ववच्चतुर्थपञ्चमवस्तुनी लिखेत् । ततस्तालिका शीर्षकं च यथोत्तरेण लिखेत् । अथ सर्ववस्तूनां शाखात्वे तदुत्तरार्धानां प्रतिशाखात्वे तु यथाप्रथमं समस्तं वस्तु लिखित्वा शाखां कुर्यात् । ततस्तदुत्तरार्धे लिखित्वा प्रतिशाखां कुर्यात् । एवं त्रीणि वस्तूनि शाखाः, तदुत्तरार्धानि प्रतिशाखाः । ततश्चतुर्थ वस्तु शाखां लिखित्वा यथाक्षरेणोत्तरेणोपवर्तनं लिखेत् । ततो वस्तूत्तरार्ध प्रतिशाखां कृत्वा पञ्चमं वस्तु शाखां लिखेत् । ततस्तालिकां शीर्षकं च यथाक्षरेणोत्तरेणोपवर्तनं लिखेत् । ततो वस्तूत्तरार्धेन प्रतिशाखां कृत्वा पञ्चमादिशाखां लिखेत् । ततस्तालिका शीर्षकं च यथाक्षरेणोत्तरेण लिखेत् । ततो वस्तूत्तरार्धन प्रतिशाखां यथाक्षरेणोत्तरेण तालिका शीर्षकं च लिखेत् । इति पञ्चवस्तुकस्य भेदाः ॥
इति चतुष्कलमपरान्तकम् (क०) अथोल्लोप्यकं लक्षयति-भेदैरित्यादि । एककलायैः; एककलद्विकलचतुष्कलायैः । एककले मात्राप्रमाणमाह--भवेदित्यादि ।
Scanned by Gitarth Ganga Research Institute