________________
पवमस्तालाध्यायः
यद्वा कलाप्रयोगेण शून्यान्मात्रोपरिस्थितान् । कलाचतुष्ककालात्स्यादेककत्रितयादिदम् ॥ ११३ ॥ एकाङ्गादिषडङ्कान्तं द्वादशाङ्कान्तमप्यदः । विविधोऽस्याद्यमङ्गं स्यादेककानि ततः परम् ॥ ११४ ॥ तद् द्वादशकलं प्रोक्तमुल्लोप्यकसमापकम् ।
६९
;
वैहायसमित्यादि । चतुष्कले मात्रोपरि वैहायसं विधातव्यमित्यन्वयः । चतुष्कले ; चतुष्कलोलो प्यके । मात्रोपरि षोडशकलात्मिकाया मात्राया अनन्तरं वैहायसं नामाङ्गं कर्तव्यम् ॥ ११० - ११२ ॥
;
(सु०) मतान्तरमाह - अनन्तरस्वरैरिति । विदारीणां तु समापनं संवाद्यनुवादीनामनन्तग्स्वरैरेकान्तरितस्वरैर्वा कर्तव्यम् । विशाखिलग्रहणं प्रशं सार्थम् | अत्रेति । अत्र; वृत्ते, चतुर्धा आरोहणम्, अवरोहणं च कर्तव्यम् । न्यासस्वरमारभ्य वा परं न्यासस्वरम् । अंशस्वरं तु तत्संवादिनं वा, आरोहो वावरोहणं चेति । चतुष्कले विशेषमाह - वैहायसमिति । चतुष्कले ; चतुष्कलोल्लोप्यके मात्रानन्तरं वैहायसं कर्तव्यम् ॥ ११०-११२ ॥
(क०) पक्षान्तरेण वैहायसं प्रयोजयति - यद्वेति । कलाप्रयोगेण शून्यादिति; 'वैहायसे तु निविशा:' इत्यादिना वक्ष्यमाणेन कलाप्रयोगेण रहितात् । कलाचतुष्ककालादिति । गुरुचतुष्टय मितकालादनन्तरम | एककत्रितयात्; एककानि नाम गीताङ्गानि तेषां त्रितयात् । इदम् पूर्वोक्तं वैहायसं स्यात् । एकाङ्गादिति । अदः एतद्वैहायसम् । एकाङ्गादिषडङ्कान्तमिति । एकस्मिन्पक्षे षड्भेदयुक्तम् । द्वादशाङ्गान्तमिति | पक्षान्तरे द्वादशभेदयुक्तमित्यर्थः । सर्वेषु भेदेषु आद्यमङ्गं विविधः स्यात् । ततः परमङ्गान्येककानि भवन्ति । एकाङ्गदेशे विविधः । एवं द्वयङ्गादिभेदेषु द्वितीयादीन्यङ्गान्येककानि भवन्तीत्यर्थः । तदिति ; तद्वै
Scanned by Gitarth Ganga Research Institute