________________
४६
संगीतरत्नाकरः शाखार्धं पश्चिमं त्वाह प्रतिशाखां विशाखिलः । शाखा वस्तूच्यते तस्याः परार्धं प्रतिशाखिका ॥ ९० ॥ इत्याह भरतस्तत्रोपोहनं कलिकं मतम् । प्रत्युपोहनमत्र स्यान वान्ये त्वेकवस्तुकम् ।। ९१ ॥ इदमाहुः कला तेषां द्वितीया प्रत्युपोहनम् ।
शीर्षमेककलेन स्याच्छाखान्ते पञ्चपाणिना ॥ ९२ ॥ यथा शाखा तथा प्रतिशाखा कर्तव्या । किं रूपा शाखा ? पदेभ्योऽन्यः पदैविधेयेति ॥ ८८, ८९॥
(क०) विशाखिलमते विशेषमाह-शाखार्थमित्यादि । पश्चिम शाखार्धम् । प्रतिशाखामाहेत्यत्र एकवस्तुकपक्षे वस्तुप्रमाणेन शाखां कृत्वा वस्तूत्तरार्धलघुचतुष्टये प्रतिशाखां कुर्यात् । पञ्चवस्तुकादिषु त्रिषु पक्षेषु त्वादिमं सार्धवस्तुद्वयं वस्तुत्रयं च क्रमेण शाखां कुर्यात् । तादृक्पश्चिमाधैं च प्रतिशाखां कुर्यात् । भरतमते विशेषं दर्शयति-शाखावन्तूच्यत इत्यादि। तत्र; पञ्चवस्तुकादिषु त्रिष्वपि पक्षेषु प्रतिवस्तु पूर्वार्ध शाखोत्तरार्ध प्रतिशाखेति मन्तव्यम् । उपोहनं कलिकमिति । कलया निवृत्तं कलिकम् ; मतं संमतम् । यत्र तूपोहनं नोच्यते तत्राद्ये वस्तुनि कर्तव्यं गुरुद्वयमुपोहनमिति न्यायो ग्राह्यः ॥ ९०-९२ ॥
(सु०) मतान्तरमाह-शाखार्धमिति । एकवस्तुकपञ्चवस्तुकषड्वस्तुकसप्तवस्तुका वा या शाखा तस्याः उत्तरार्ध प्रतिशाखेति । ततश्च एकवस्तुके लघुचतुष्टयरूपं वस्तुन उत्तरार्ध प्रतिशाखा । पञ्चवस्तुके प्रथमार्धवस्तुद्वयानन्तरमन्तिमसार्धवस्तुद्वयं प्रतिशाखा । षड्वस्तुके अन्तिमवस्तुत्रयम् | सप्तवस्तुके सार्धान्तिमसार्धवस्तुत्रयं प्रतिशाखेति । भरतमतेन पञ्चवस्तुकादिवपि एकैकं वस्तु शाखाशब्देनोच्यते । तस्योत्तरार्ध प्रतिशाखेति । अत्र ; अप
Scanned by Gitarth Ganga Research Institute