________________
पवमस्तालाध्यायः
त्रिधापरान्तकं तद्वद्भेदेनैककलादिना । अस्मिन्नेककले वस्तु चतुर्गुरु चतुर्लघु ॥ ८८ ॥ पञ्च षट् सप्त वा वस्तून्यस्य शाखा निगद्यते । शाखेव प्रतिशाखा स्यात्किं त्वन्यपदनिर्मिता ॥ ८९ ॥
४५
मित्येतान् लिखेत् । तथा चतुष्कलमपि लिखेत् । अथ चतुष्कलाभ्यां वा - पूर्ववच्चतुष्कलौ लिखेत् ॥ -८७ ॥
यथा -
इति चतुष्कलमद्रकम्
(सु०) अङ्गुलिनियममाह - चच्चत्पुटवदिति । पूर्व चच्चत्पुटे योऽङ्गुलिनियम उक्तः ; " प्रथमे पादभागे स्यात्कलाङ्गुल्या कनिष्ठया ” इत्यादिना समद्रके ज्ञातव्य: ॥ ८७ ॥
इति चतुष्कलमद्रकम्
(क) अथापरान्तकं लक्षयति-- त्रिधापरान्तकमित्यादि । पञ्च षट् सप्तेति । पञ्च वस्तूनि शाखेत्येकः पक्षः । षड् वस्तूनि शाखेत्यन्यः । सप्त वस्तूनि शाखेत्यपरः । शाखेति गीताङ्गस्य संज्ञा । किं त्वन्यपदनिर्मितेति प्रतिशाखाया विशेषकथनम् । अन्यपदनिर्मितेति । शाखाप्रयुक्तेभ्यः पदेभ्योऽन्यैः पदैः कर्तव्येत्यर्थः । अनेन शाखाप्रतिशाखयोरेक एव धातुः कर्तव्य इति गम्यत इति केषांचिन्मतम् ॥ ८८, ८९ ॥
(सु०) अपरान्तकं लक्षयितुं विभजते - त्रिधेति । अपरान्तकं त्रिप्रकारम् ; एककलं द्विकलं चतुष्कलमिति । तत्रैककलं लक्षयति-अस्मिन्निति । अस्मिन्; अपरान्तके एककले चतुर्भिः गुरुभिः लघुभिश्च वस्तु कार्यम् । एकमेव वस्त्वित्येकः पक्षः । पश्च वस्तूनीत्यपरः । षड् वस्तूनीति तृतीयः । सप्त वस्तूनीति चतुर्थः । तान्येव वस्तूनि यस्मिन् शाखेत्युच्यते ।
Scanned by Gitarth Ganga Research Institute