________________
पणमस्तालाध्यायः
अन्ये तु प्रतिशाखान्तेऽप्येतदाहुर्मनीषिणः । शाखायाः प्रतिशाखायाः कलाषद्केऽन्त्यवस्तुनः ॥ ९३ ।। अन्त्ये पदावृत्तियुक्तः पञ्चपाणिर्यथाक्षरः । निजपातैर्विना यद्वा तत्पाता एव केवलाः ॥ ९४ ॥ तालिकेयं पृथग्यद्वा पञ्चपाणौ यथाक्षरे ।
तृतीयादिगलेषु स्युः शताताशाश्च तालसम् ॥ ९५ ॥ रान्तके । उपोहनं कलिकम् एककलाविरचितं प्रत्युपोहनं कर्तव्यं वा न वेति ॥ ९०-९२ ॥
(क०) एकवस्तुकपक्षे विशेषान्तरमाह - अन्ये विति । शाखान्ते शीर्षकमित्येकः पक्षः । प्रतिशाखान्ते शीर्षकं कर्तव्यमिति पक्षान्तरम् । शाखाया इति । अन्त्यवस्तुनः शाखायाः प्रतिशाखाया अन्त्ये कलाषटके यथाक्षरः पञ्चपाणिः पदात्तियुक्तः कर्तव्य इति योजना । निजपातैर्विनेति। षट्पितापुत्रकस्य निजाः पाताः संताशताशताः तैविनेति देशीतालवत् शम्ययैव प्रयोक्तव्य इत्येकः पक्ष: । यद्वा तत्पाता एवेति । तस्य षपितापुत्रकस्य पाताः पूर्वोक्ताः । केवला इति । पातकलान्तरयुक्ता इत्यर्थः । अयमप्यन्यः पक्षः । तालिकेयमिति । पञ्चपाणियुक्तमुक्तं यत्कलाषटकं तदेव तालिकासंज्ञयोच्यत इत्यर्थः । पृथग्यद्वेति । वस्त्वनन्तर्भावेन तालिका कर्तव्येति पक्षान्तरम् । तृतीयादिगलेष्विति । चतुर्गुरुचतुर्लध्वात्मके वस्तुनि प्रथमकलायामुपोहने कृते द्वितीयकलायां प्रत्युपोहने च कृते तृतीयचतुर्थयोYोः शतौ पञ्चमादिषु चतुर्षु लघुषु क्रमात 'ताशताश' इति पाताः कर्तव्याः ॥ -९२-९५ ॥
(सु०) एकवस्तुके विशेषमाह-अन्ये त्विति । अन्ये तु आचार्याः ; इदमपरान्तकमेकवस्तुकमित्याहुः । तेषां मते द्वितीया कला प्रत्युपोहनम् ।
Scanned by Gitarth Ganga Research Institute