________________
४२
संगीतरत्नाकरः आनिविपाः पादभागत्रितयेऽभिमताः क्रमात् ।। ८५ ॥ द्वयोरानिविशास्तद्दयोरानिवितास्ततः ।। एकत्रानिविशा आशविताश्चाताविशा द्वयोः ॥ ८६ ॥
अन्त्ये तानिविसं पातकलाविधिरयं मतः । पितापुत्रकेणेति द्वितीयः । द्विकलेन चतुष्कलेन पितापुत्रकेणेति तृतीयः । चतुष्कलेन षपितापुत्रकद्वयेनेति चतुर्थ इति। अष्टकलमिति। अत्र चतुष्कलमद्रके उपोहनम अष्टकलमष्टाभिः कलाभिः कर्तव्यम् । प्रत्युपोहनं तु एकया कलया कर्तव्यमित्येकः पक्षः । कलाद्वयेन कर्तव्यमिति द्वितीयः । कलाचतुष्टयेन कर्तव्यमिति तृतीयः । प्रत्युपोहनमिति चतुर्थः । अन्तिमस्य तृतीयस्य वस्तुनोऽन्ते द्वैगेयकाख्यो विविधः कर्तव्यः । कोऽयं द्वैगेय इत्यपेक्षायामाह-असाविति । असो; द्वैगेयकः । अंशादिः; जातेरंशस्वर एव आदिर्ग्रहो यस्य ; एवमंशस्वर एवान्तः न्यासस्वरो यस्य ; तथाविधः पदवृत्तिमान् ज्ञातव्यः ॥ -८२-८४- ॥
(क) द्वादशसु पादभागेषु पातकलाविधिं दर्शयति--आनिविप्रा इत्यादिना । एकत्रानिविशा इत्यत्र, एकत्रेत्यष्टमे पादभाग इत्यर्थः । आशाविताश्च इत्यत्र चकारेण एकत्रेत्येतदनुकृप्यते । तेन नवमैकपादभाग आशाविता भवन्तीत्यर्थः । आताविशा द्वयोः इत्यत्र द्वयोर्दशमैकादशयोरित्यर्थः । अन्त्य इति । द्वादशे पादभाग इत्यर्थः ॥ -८५, ८६ ॥
(सु०) पातकलाविधिमाह-आनिविप्रा इति । प्रथमे पादभागत्रये आवापनिष्क्रामविक्षेपप्रवेशाः । ततः द्वयोः पादभागयोः आवापनिष्कामविक्षेपशम्याः । ततो द्वयोनिष्कामावापतालाः । तत एकस्मिन् अष्टमपादभागे आवापनिष्क्रामविक्षेपशम्याः । ततो नवमे पादभागे आवापशम्याविक्षेपतालाः। दशमैकादशयोः पादभागयोरावापतालविक्षेपशम्याः। अन्त्ये द्वादशभागे तालनिष्क्रामविक्षेपसंनिपाता इति ।। -८५, ८६- ।।
Scanned by Gitarth Ganga Research Institute