________________
पथमस्तालाध्यायः चतुष्कलेनोत्तरेण केवलेनास्य शीर्षकम् ॥ ८३ ॥ युक्तेनैककलाद्यैर्वाष्टकलं स्यादुपोहनम् । विविधोऽन्तिमवस्त्वन्ते कार्यों द्वैगेयकाभिधः ॥ ८४ ॥
असावंशादिरंशान्तपदावृत्तियुतो मतः । मात्राकल्पनम् । तत्राद्यमात्रयोविविधाख्यमङ्गम् ; तृतीयमात्रायामेककाख्यमङ्गम् । त्रिवस्तुपक्षे वस्तुत्रयानन्तरं शीर्षकाख्यमङ्गमित्यादिलक्षणमात्रापि कर्तव्यमित्यतिदेशार्थः । विशेषं दर्शयति--कित्विति । चतुष्कलेनोत्तरेणेत्यादि । अस्य ; चतुष्कलमद्रकस्य शीर्षकं केवलेनोत्तरेणेत्येकः पक्षः । युक्तेनैककलाद्यैर्वेत्यत्र त्रयः पक्षाः । यथा-एककलचतुष्कलाभ्यां प्रथमः । द्विकलचतुष्कलाभ्यां द्वितीयः । चतुष्कलाभ्यां तृतीयः । एवं शीर्षके चत्वारः पक्षाः । प्रत्युपोहनेऽपि चत्वारः पक्षाः । एककला प्रथमः पक्षः । द्वितीया कलेति द्वितीयः । चतस्रः कलास्तृतीयः । न वा स्यादिति चतुर्थः । द्वैगेयकाभिध इति । अत्र विविधसंज्ञकस्याङ्गस्य विशेषसंज्ञा । असाविति । द्वैगेयकः अंशादिः अंशस्वर एव ग्रहो यस्येति स तथोक्तः । अंशान्त इति । अंशस्वर एव न्यासो यस्येति स तथोक्तः । पदात्तियुतः इत्यनेन द्वैगेयकसंज्ञाया अन्वर्थता दर्शिता भवति ॥ - ८२-८४- ॥
(सु०) चतुष्कलमद्रकं लक्षयति-चतुष्कल इति । चतुष्कलमद्रकस्य वस्तु द्विकलवस्तुनः सकाशात् द्विगुणमष्टाचत्वारिंशत् । ताभिः गुरुरूपाभिः एवं वस्तु कार्यम् । अन्यत्सर्व लक्षणं द्विकलमद्रकवत् । अयं तु विशेष:-अत्र चतसृभिः कलाभिः पादभागमुत्तरेण पितापुत्रकेण चतुष्कलशीर्षकं कर्तव्यम् । तच्च केवलेन षपितापुत्रकेण वा कर्तव्यम् । एककलाधैर्युक्तेन वा । एककलायेरिति । एककलेन द्विकलेन चतुष्कलेनेति । तदत्र शीर्षके पक्षचतुष्टयम् । चतुष्कलेन पितापुत्रकेणेत्येकः पक्षः । एककलेन चतुष्कलेन
Scanned by Gitarth Ganga Research Institute