________________
संगीतरनाकरः चतुष्कले तु द्विगुणं वस्तु द्विकलवस्तुनः ।। ८२ ॥
लक्ष्म द्विकलवकिंतु पादभागश्चतुष्कलः । द्विकलान् द्वादश पादभागान् सविच्छेदं लिखित्वा तदधस्तात् ; निप्र निप्र निप्र निशान् ; निश निता निता निशान् ; शता ताश ताश तासांश्च मात्राविभागेन लिखेत् । ईदृशवस्तुत्रयान्ते शीर्षकं यथाक्षरेणोत्तरेण पूर्ववल्लिखेत् । द्विकलेनोत्तरेण वा ; यथा षट्पादविभागेन द्वादश गुरून् लिखित्वा तदधस्तात् निप्र ताश निता निश ताप निसान लिखेत् ॥ ७८-८१- ॥
___ इति द्विकलमद्रकम् (सु०) एवमेककलमद्रकं लक्षयित्वा द्विकलं लक्षयति-द्विकल इति । द्विकले मद्रके चतुर्विंशतिकला | एवं वस्तुगुरुकला द्विकल इत्युक्तत्वात् चतुर्विंशतिवस्तुनि गेया । तैः; गुरुभिः द्वादश पादभागा आदिगुरवः कर्तव्याः । चतुःपादभागैरेकमात्रेति तैः द्वादशभिः पादभागैः मात्रात्रयं कर्तव्यम् । मात्रात्रये एककं वस्तु । एवंविधवस्तुत्रयानन्तरम् , उत्तरेण ; षपितापुत्रकेण, द्विकलेन यथाक्षरेण वा शीर्षकं गेयम् । तत्र कलात्रयेण उपोइन कर्तव्यम् । एकया कलया कलाद्वयेन वा प्रत्युपोहनम् । वस्तुत्रयेऽपि पूर्व मात्राद्वये पूर्वोक्तो विधिः कर्तव्यः । तृतीयमात्रायामेकैकपातकलाविधिमाह -पादभागेति । पादभागत्रये निष्क्रामप्रवेशौ। अन्येषु पञ्चसु पादभागेषु आद्यासु कलासु निष्क्राम: । अन्यत्पूर्वमद्रकवत् । ततश्चतुर्विंशति कलासु क्रमेण निक्रामप्रवेशनिष्क्रामप्रवेशनिष्क्रामप्रवेशनिष्कामशम्या: ; निष्कामशम्यानिष्क्रामतालनिष्क्रामतालनिष्क्रामशम्याः; शम्यातालतालशम्यातालशम्यातालसंनिपाता ज्ञातव्याः ॥ ७८-८१-॥
इति द्विकलमद्रकम्
___ (क०) अथ चतुष्कलमद्रकं लक्षयति-चतुष्कले वित्यादि । वस्तु ; द्विकलवस्तुनो द्विगुणं भवतीति प्रतिवस्त्वष्टाचत्वारिंशत्कला भवन्तीत्यर्थः । लक्ष्म विकलवदिति । प्रतिवस्तु द्वादश पादभागाः, तैः चतुर्भिश्चतुर्मि
Scanned by Gitarth Ganga Research Institute