________________
संगीतरत्नाकरः द्विकले मद्रके वस्तु स्याञ्चतुर्विंशतिः कला । पादभागा द्वादश स्युस्तैस्तु मात्रात्रयं भवेत् ॥ ७८ ॥ द्विकलेनोत्तरेण स्याच्छीर्षे वस्तुत्रयात्मकम् । यथाक्षरेण वा तत्र विकलं स्यादुपोहनम् ॥ ७९ ॥ प्रत्युपोहनमत्र स्यात्कलिकं द्विकलं न वा। विविधः प्रतिवस्तु स्यान्मात्रयोरेककं पुनः ।। ८०॥ भवेत्तृतीयमात्रायामथ पातकलाविधिः । पादभागत्रये निमौ पञ्चस्वन्येषु याः कलाः ॥ ८१ ॥
आद्यास्तासु निरेवान्यत्पूर्वमद्रकवद्भवेत् । क्रमेण लिखेत् । एवं वस्तुत्रयं वस्तुचतुष्टयं वा लिखेत् । त्रिवस्तुपक्षे वस्तुत्रयस्यान्ते शीर्षकाख्यमङ्गं चतुप्कलेन पट्पितापुत्रकेण कुर्वीत । तस्य प्रस्तारो यथा-पटसु पादभागेषु प्रतिपादभागं चत्वारि गुरूणि सविच्छेदं तिर्यक्पक्तित्वेन लिखेत् । तदधस्तात् प्रथमपादभागे आनिविप्रान् ; द्वितीये आताविशान् ; तृतीये आनिवितान् ; चतुर्थे आनिविशान् ; पञ्चमे आताविप्रान् ; षष्ठे आनिविसांश्च क्रमेण लिखेत् । अथवा यथाक्षरेण षट्पतापुत्रकेण शीर्षकं गायेत् । यथा-पलगगलपान् लिखित्वा तदधस्तात् क्रमेण संताशताशतान् लिखेत् ।।
इत्येककलमद्रकम् (क०) अथ द्विकलमद्रकं लक्षयति-द्विकले मद्रक इत्यादिना । चतुर्विंशतिः कला वस्तु स्यादिति । वस्तुनः प्रमाणमेककलापेक्षया द्विगुणमुक्तम् । पादभागा द्वादश स्युरिति । एकस्य द्विकलत्वादिति भावः । अन्यथा चतुष्कलत्वेन वा षट्पादभाग इति संभाव्येत । तैस्तु मात्रात्रयं भवेदिति । प्रथमे चत्वारः पादभागा एका मात्रा । मध्ये चत्वारः
Scanned by Gitarth Ganga Research Institute