________________
३६
संगीतरत्नाकर भगवान्भरतस्त्वासां संख्यानियममभ्यधात् । 'अवरैकादशपरा विदार्यः परिकीर्तिता ।। ७५ ॥ चतुर्विंशतिरासां तु प्रमाणं परमं स्मृतम् । अवान्तरविदारीणां चतुर्विंशतिसंख्यया ॥ ७६ ॥ न्यासान्तमथवांशान्तं विदार्येकैककं मतम् ।
आधं वस्तुद्वयं मद्रांशग्रहं मद्रके मतम् ।। ७७ ॥ उक्तः; तद्वदत्रापि न्यासः कर्तव्य इत्यर्थः । जात्यंशोऽश इति । विदार्योरंशस्तु स्वरागयोनिजातेरंश एव कर्तव्य इत्यर्थः । अल्पके पुनरिति । अंशे; जात्यंशे । अल्पके; अल्पप्रयोगे सति । तदनुवादी; जात्यंशानुवादी। तत्संवादी वांश इप्यते । एतासामिति । विदारीणाम् । अवरैकादशपरा इति । अवराश्च ता एकादशपराश्चेति कर्मधारयः । तिस्रो विदार्योऽवरा अल्पसंख्याकाः, एकादश विदार्यः परा अधिकसंख्याकाः । अयं महाविदारीणां संख्यानियमो मुनिना दर्शितः । अवान्तरविदारीणां चतुर्विंशतिसंख्या दर्शिता। मद्रांशग्रहमिति । मद्रके प्रथमवस्तुनो मद्रकस्थानस्थितं स्वरमंशग्रहं च कुर्यादिति नियमोऽवगन्तव्यः ॥ -७३-७७ ॥
(सु०) अनयोः ; महाविदार्यवान्तरविदार्योः । वस्तुवत् ; न्यासस्वरः; जातेरंशस्वरो वा अंशः कर्तव्यः । आदिमोऽशस्वरोऽल्पः । तर्हि तस्य अंशस्वरस्य अनुवादी संवादी वा स्वरोऽशः कर्तव्यः । दत्तिलादिमतेन विदारीणां संख्यानियमो नास्ति । भरतमतेनास्तीत्युक्त्वा तमेव संख्यानियममाह-त्र्येति । तिस्रो विदार्यः अवरा हीनाः । इतः परं न्यूना संख्या नास्ति । एकादशसंख्या परा उत्कृष्टा; आसां विदारीणामुत्कृष्टसंख्या चतुर्विंशतिः । इयं तु संख्या महाविदारीणाम् । अवान्तरविदारीणां संख्यामाह-अवान्तरेति । अवान्तरविदारीणां संख्या चतुर्विशतिः ।
ध्यवरकादश इति सुधाकरपाठः
Scanned by Gitarth Ganga Research Institute