________________
पश्चमस्तालाध्यायः
अनयोर्वस्तुवन्न्यासो जात्यंशोऽशोऽल्पके पुनः ॥ ७३ ॥ अंशे तदनुवादी वा संवादी वांश इष्यते । संख्यानियममेतासां नावोचन्दत्तिलादयः ॥ ७४॥
(सु०) किमिदं प्रत्युपोहनं चेत्यपेक्षयामाह-झण्टुमिति । झण्टुं झण्टुं दिगि दिगि इत्याद्यक्षरैः । तयोः ; उपोहनप्रत्युपोहनयोः, रचना कर्तव्या इति । एवं त्रिवस्तुकं मद्रकमुक्तम् । मतान्तरमाह-एकवस्तुकमिति । केऽपि सूरयः भरतादयः एकवस्तुकमपि मद्रकमाहुः । ननु द्वितीयतृतीयवस्तुनोरभावात् तयोः कर्तव्यं प्रत्युपोहनं कथमित्यपेक्षायामाह-तृतीय इति । येषां मते एकवस्तुकं मद्रकम् , तै: प्रथमगुरुद्वयमुपोहनम् । तृतीये गुरुणि प्रत्युपोहनं कार्यमित्युक्तम् । एकवस्तुकमद्रके वस्तुनोऽनन्तरं किं गेयमित्यपेक्षायामाहगुर्वष्टक इति । अष्टसु गुरुषु वक्ष्यमाणलक्षणो विविधः कर्तव्यः । अष्टसु लघुषु वक्ष्यमाणलक्षणमेककं कार्यम् । विविधं लक्षयति-विविध इति । विदारीद्वयेन रचितो विविधः । विदार्या लक्षणं वक्ष्यति । स विविधस्त्रिप्रकारः । सामुद्गः, अर्धसामुद्गः, विवृत्तश्चेति । एतान् लक्षयति–विदायोरिति । पदसाम्ये वर्णसाम्ये, आदिशब्दात् स्वरसाम्ये सामुद्गाख्यो विविधः । एकस्या विदार्याः द्वयोर्भागयोः पदवर्णादिसाम्ये द्वितीयः । उत्तरे विदार्योर्भागद्वयसाम्ये तृतीय इति । सर्वोऽपि विविध: द्वैगेयकाख्यं विविधं विना न्यासान्तः कर्तव्यः । रागजनकजातेयासस्वरः समाप्तिस्वरोऽन्ते यस्य । द्वैगेयकं लक्षयति
-असमानेति । विदार्योः पदवर्णादेरसाम्येन युक्तः, न्यासापन्यासस्वराभ्यां निर्मितः विवृत्ताख्यो विविध: स्यात् । तत्तद्विदार्या सिद्धवदगीकृत्य विविधो मतः। कैरियं विदारीत्यपेक्षायामाह-विदारीति । गीतखण्डम् ; गीतस्य खण्डं शकलं विदारीत्युच्यते । सा द्विधा; महाविदारी अवान्तरविदारी चेति । एते लक्षयति-महतीति । या सर्वमपि वस्तु व्याप्नोति, सा महाविदारी ; या तु पदवगैरेव समाप्ता, सा आवान्तरविदारी, अवान्तरवस्तुनो विन्यास इति ॥ ६६-७२- ॥
___ (क०) अनयोर्वस्तुवन्यास इति । अनयोः ; महाविदार्यवान्तरविदार्योः । वस्तुवदिति । वस्तुनः स्वरागयोनिजातेस्त्वित्यादिना यो न्यास
Scanned by Gitarth Ganga Research Institute