________________
संगीतरनाकरः झण्टुमाद्याक्षरैरेव रचना स्यात्तयोर्द्वयोः ॥ ६६ ॥ एकवस्तुकमप्याहुर्मद्रकं केऽपि मूरयः । तृतीये गुरुणि प्रोक्तं तत्र तैः प्रत्युपोहनम् ॥ ६७ ।। गुर्वष्टके स्याद्विविधं लघुप्वष्टस्वयैककम् । विविधो द्विविदारीकः स त्रिधा परिकीर्तितः ।। ६८ ॥ सामुद्गश्वार्धसामुद्गो विवृत्तश्चेति मूरिभिः । विदार्योः पदवर्णादिसाम्यात्सामुद्गको मतः ।। ६९ ॥ विदारीभागयोः साम्यावर्धसामुद्गको मतः । पूर्वस्या वा परस्या वा द्वयोति त्रिधा च सः ॥ ७० ॥ न्यासान्तो विविधः कार्यः सर्वो द्वेगेयकं विना। असमानविदारीको न्यासापन्यासनिर्मितः ॥ ७१ ॥ वित्तः स्याद्विद्वारी तु गीतखण्डं द्विधा च सा। महत्यवान्तरा चेति महती व्याप्तवस्तुका ।। ७२ ॥ समाप्ता पदवर्णान्तेवान्तरा त्वन्तरा मता ।
(सु०) ध्रुवपान मिति । तस्य मद्रकस्य वस्तुन आदिमं गुरुत्रयम् , ध्रुवपाते त्रयम् । तत् ध्रुवपाते, अध्रुवपाते वा प्रयोज्यम् ; पातहीनं वा । चतुर्थे गुरौ शम्या ; पधमे शम्या ; षष्ठसप्तमयोस्ताल: ; अष्टमे शम्येति । क्रमादिति । प्रथमे लघुनि शम्या ; द्वितीयतृतीयलघुनोस्ताल: ; चतुर्थे शम्या ; पञ्चमे ताल:; षष्ठे शम्या ; सप्तमे तालः; अष्टमे संनिपात इति । शेषेषु ; आदिमात् गुरुत्रयादन्येषु । गलेषु ; गुरुलघुषु, इयं पातकल्पना स्यात् । एवमिति । गुवष्टकलघ्वष्टकरूपं वस्तुत्रयं गीत्वा, शीर्षकं तु प्रयोक्तव्यम् । तत् चतुष्कलेन एककलेन षपितापुत्रकेण पञ्चपाणिना वा कार्य: । आद्य इति । त्रयाणां वस्तूनां मध्ये प्रथमवस्तुनि आद्यं गुरुद्वयमुपोहनं कर्तव्यम् । द्वितीये तृतीये वस्तुनि प्रथमगुरुणा प्रत्युपोहनं कार्यम् ॥ ६२-६५ ॥
(क०) तयोयोरिति । उपोहनप्रत्युपोहनयोः ॥ -६६-७२- ॥
Scanned by Gitarth Ganga Research Institute