________________
पश्चमस्तालाध्यायः
बद्धं स्तुतिपदैस्त्यक्तोपोहनप्रत्युपोहनम् । वस्तुमात्रैरनिर्युक्तं तत्र त्रेधा तु मद्रकम् ।। ५९ ॥ विधिनैककलायेन चतुर्वस्तु त्रिवस्त्विति ।
पुनर्देधा शीर्षकं तु त्रिवस्तुन्येव बोध्यते ।। ६० ।। भवति । स्तुतिपदैर्बद्धं पदनियुक्तमित्युच्यते । त्यक्तोपोहनप्रत्युपोहनमित्यनियुक्तस्य विशेषणम् । उपोहनं नाम-ध्रुवादिगानेषु रागप्रकाशनार्थ स्थायिस्वराश्रयणेन झण्टुमादिवर्णपरिग्रहो लध्वादिकालपरिज्ञानाय तालपरिग्रहश्च । उपोहनमपि, उप समीप ऊह्यते विचार्यत इत्युपोहनमित्युक्तम् । तथाचोक्तं भरतेन
" उपोह्यते स्वरो यस्माद्येन गीतं प्रवर्तते । तस्मादुपोहनं ज्ञेयं स्थायिस्वरसमाश्रयम् ॥ अथवोपोह्यते यस्मात्प्रयोगः स्तवनादिकः । तस्मादुपोहनं ह्येतद्गानं भाण्डसमाश्रयम् ॥"
(नाट्य. ३१. २४२, २४३)
इति;
" गुरुलाघवसंयुक्तं कलातालसमन्वितम् ।
पूर्वरङ्गे सदा ज्ञेयं चित्रमार्गे ह्युपोहनम् ॥" (नाट्य. ५. १८२)
इति च । तत्र प्रथमवस्त्वादौ कृतमुपोहनमित्युच्यते । द्वितीयादिवस्त्वादौ कृतं तु प्रत्युपोहनमित्युच्यते । अथवा एकवस्तुनि प्रथमं कृतमुपोहनम् । तदनन्तरं कृतं प्रत्युपोहनमित्युच्यते । त्यक्ते उपोहनप्रत्युपोहने यस्येति तत्तथोक्तम् । तत्र मद्रकं लक्षयितुमाह-तत्र त्रेधा तु मद्रकमित्यादिना । एककलाधेन विधिनेति । एककलमद्रकम् ; द्विकलमद्रकम् ; चतुष्कलमद्रकं चेति त्रिविधमित्यर्थः । चत्वारि वस्तूनि
Scanned by Gitarth Ganga Research Institute