________________
३०
संगीतरत्नाकरः कुलकं छेद्यकं चेति तानि द्वेधा जगुर्बुधाः ॥ ५६ ।। वस्तूनामेकवाक्यत्वे कुलकं संप्रचक्षते । वस्तूनां भिन्नवाक्यत्वे छेद्यकं ते पुनः पृथक् ॥ ५७॥ नियुक्तं पदनिर्युक्तमनिर्युक्तमिति विधा । सर्वाङ्गयुक्तं नियुक्तं पदनिर्युक्तकं पुनः ॥ ५८ ॥
भरतादयः । तानि गीतानीति । मद्रकादीनां सप्तानां गीतकादीनां, छन्दकादीनां सप्तानां गीतानां च सामान्येन निर्देशः । गीतानीति । अत्र गीतानीत्यवादिपुरित्यनुषङ्गः कर्तव्यः । चतुर्दशेत्यादि । विधिः ; ब्रह्मा मोक्षमिच्छन् शिवस्तुतौ प्रयुक्तवानित्यर्थः ॥ ५३-५६ ॥
(सु०) प्रकरणाख्यानि गीतानि वक्तुं प्रतिजानीते --एतेरिति । एतैः पूर्वोक्तैः मार्गतालैः प्रकरणाख्यानि गीतानि यानि बुधाः भरतादयो जगुः । प्रक्रियन्ते प्रस्तूयन्ते मद्रकादीनीति प्रकरणानि | तालैरिति । तालैः; मार्गतालैरिति कथनं पूर्वसंबन्धप्रदर्शनार्थम् । यद्यपि पश्चतालेश्वरादीनां मार्गतालसंबन्धोऽस्ति ; तथापि तेषां तालप्रधानत्वाभावात् मार्गत्वापातनियमाभावाच प्रबन्धाध्याये निर्देशः कृतः । मद्रकादीनां तु तालप्रधानत्वादत्र वक्ष्याम इति । तानि विभजते-तेषामिति । मद्रकम् ; अपरान्तकम् ; उल्लोप्यकम् ; प्रकरी ; ओवेणकम् ; गेविन्दकम् ; उत्तरासारितमित्येतानां सप्तानां गीतानीति यत्तत्त्वान्तरसंज्ञा, तच्छन्दकादीनामेतेषां चतुर्दश प्रकरणाख्यानि एतानि चतुर्दश गीतानि शिवस्तुतौ प्रयोज्यानीति विधिः ब्रह्मा विदधे प्रयुक्तवान् ॥५३-१६-॥
(क०) वस्तूनामेकवाक्यत्व इति । वस्तूनां वक्ष्यमाणानामेककलादीनां गीतावयवानामेकवाक्यत्व एकक्रियान्वये सति कुलकम् । वस्तूनां भिन्नवाक्यत्वे प्रतिवस्तु, क्रियाभेदे सति छेद्यकम् । ते पुनः पृथगिति । ते कुलकच्छेद्यके ; पृथक् प्रत्येकं निर्युक्तादिभेदेन त्रिधा भवतः । सर्वाङ्गयुक्तमिति । वक्ष्यमाणैः विविधाभिरङ्गैरन्युनतया युक्तं निर्युक्तं
Scanned by Gitarth Ganga Research Institute