________________
पञ्चमस्तालाध्यायः एतैः प्रकरणाख्यानि तालैर्यानि जगुर्बुधाः । तानि गीतानि वक्ष्यामस्तेषामायं तु मद्रकम् ॥ ५३॥ अपरान्तकमुल्लोप्यं प्रकर्योवेणकं ततः । रोविन्दकोत्तरे सप्त गीतकानीत्यवादिषुः ।। ५४ ॥ छन्दकासारिते वर्धमानकं पाणिकं तथा। ऋचो गाथा च सामानि गीतानीति चतुर्दश ।। ५५ ॥
शिवस्तुतौ प्रयोज्यानि मोक्षाय विदधे विधिः । एतेन गीतादेव प्राधान्यात् तदनुसारेण तालो योजनीय इत्युक्तं भवति ।। -५०-५२ ॥
इति मार्गतालप्रकरणम्
(सु०) ग्रहं लक्षयति-सम इति । तालस्य ग्रहणं ग्रहः । स त्रिप्रकारः; समः ; अतीतः ; अनागतश्चेति । तान् लक्षयति-गीतादीति । गीतस्य आदिः प्रारम्भ: तत्समकाल: गीतप्रारम्भसमये तालग्रहणं समग्रहणे समपाणिरित्युच्यते । य आदौ गीते सति पश्चादावर्तते सोऽतीतग्रहः, स एवावपाणिरिच्युच्यते । यो गीतप्रारम्भात्पूर्व प्रवृत्तः स अनागतग्रहः, स एवोपरिपाणिक इत्युच्यते । ग्रहेषु लयानां नियममाह-लया इति । समग्रहे मध्यलयः ; अतीतग्रहे द्रुतलयः ; अनागतग्रहे विलम्बितलय इति । अयं नियमो मार्गताले वेवावसेयः ॥ -५०-५२ ॥
इति मार्गताललक्षणम
(क०) एवमुक्तलक्षणानां मार्गतालानामुपयोगं दर्शयितुं मद्रकादीनि गीतानि वक्तुं प्रतिजानीते-एतैः प्रकरणाख्यानीत्यादिना। बुधाः;
Scanned by Gitarth Ganga Research Institute