________________
२८
संगीतरत्नाकरः सोऽवपाणिरतीतः स्याद्यो गीतादौ प्रवर्तते ॥ ५१ ॥ अनागतः प्राक्प्रवृत्तग्रहस्तूपरिपाणिकः ।
लयाः क्रमात्समादौ स्युर्मध्यद्रुतविलम्बिताः ।। ५२ ॥ कृते व्युत्पन्नो ग्रहशब्दः । गीतादिसमकाल इत्यादि। अत्रादिशब्देन वाद्यवृत्ते गृह्यते । तेन गीतादिना समः कालो यस्येति स तथोक्तः । अत्र कालशब्देन तालस्य गीतादेश्च प्रारम्भकाल एवोच्यते । तत्साम्यस्यैवात्र विवक्षितत्वात् । समपाणिरिति । समः पाणिरस्यास्तीति ग्रह विशेषणम् । अत्र पाणिशब्देन तालो लक्ष्यते । तद्वयापारेण तस्याभिव्यक्तत्वात् । यो गीतादौ प्रवर्तत इति । गीतादौ ; गीतस्यादौ । अत्र गीतशब्देन वाद्यनृत्ते अप्युपलक्ष्येते ; तयोरप्यादावित्यर्थः । अवपाणिरिति । अत्र अवशब्दोऽधःपर्यायः कालापेक्षया पूर्वभावे वर्तते । तालस्य गीतादिपूर्वभावित्वादवपाणिरित्यतीतग्रह उच्यते । गीतादिना तालकालमतिक्रम्योत्तरकालभाविना अतीतत्वादतीत इत्यर्थः । प्राक्प्रवृत्तग्रह इति । अत्र ग्रहशब्देन गृह्यत इति ग्रह इति कर्मसाधनेन गीतादित्रितयमुच्यते । प्राक्प्रवृत्तः प्रथमारब्धो ग्रहो यस्यत्यनागतग्रहस्य विशेषणम् । तालस्य गीताद्युत्तरकालभावित्वात् । स एवोपरिपाणिकश्च भवति । अनागत इति गीतादिप्रारम्भकाल आगतो न भवतीत्यन्वर्थो द्रष्टव्यः । लया इत्यादि । समग्रहे मध्यलयः ; अतीतग्रहे द्रुतलयः; अनागतग्रहे विलम्बितलय इति क्रमः । यथा लोके कश्चन केनचिन्मित्रादिना सह कंचित्प्रदेशं प्रति गन्तुमुद्युक्तः सः मित्रादिरात्मानमतीत्य पुरस्ताद्गच्छतीति श्रुत्वा तत्पश्चाद्देशे स्थितः तेन साम्यसिध्यर्थ स्वयं द्रुतं गच्छति ; यथा वा मित्राद्यागमनारम्भकाले स्वयमनागतः तद्देशात्पुरोदेशे स्थित्वा गन्तुं प्रवृत्तः पश्चाद्देशे मित्रादिरागच्छतीति श्रुत्वा तस्य स्वसाम्यसिध्यर्थ पदे पदे विलम्व्य गच्छति तद्वदिति प्रकृतेऽपि द्रष्टव्यम् ।
Scanned by Gitarth Ganga Research Institute