________________
पश्चमस्तालाध्यायः
समोऽतीतोऽनागतश्च ग्रहस्ताले त्रिधा मतः ॥ ५० ॥
गीतादिसमकालस्तु समपाणिः समग्रहः । ध्यमुञन्यतरस्याम् " (पा. ५. ३-४४) इति वर्तमाने ; " द्विव्याश्च धमुञ्" (पा. ५. ३. ४५) इति धाप्रत्ययस्य पक्षे ध्यमुञादेशे विहिते रूपन् । अन्येति । द्वितीया स्रोतोगता। परा; तृतीया स्रोतोगता मध्यद्रुतवती; मध्यलयेन द्रुतलयन च युक्तेत्यर्थः । स्रोतो यथा प्रथमं विलम्व्य जलसमृद्धौ सत्यां ततः शीघ्रं गच्छति, तद्वदन्वर्था स्रोतोगता । गोपुच्छाया अप्येतद्विपर्ययेणान्वर्थता द्रष्टव्या । यथा गोः पुच्छमन्ते विस्तृतं भवति तद्विदिति भावः ॥ ४६-४९- ॥
(सु०) यतिं लक्षयति-~-लयेति । पूर्वोक्तस्य लयस्य प्रवृत्तिनियमः प्रयोगनियमो यतिः । सा त्रिविधा ; समा; स्रोतोगता ; गोपुच्छेति । एतासां लक्षणमाह--आदीति । आदौ मध्ये अन्ते च यद्येक एव लयस्तदा समा यतिः । सा लयस्य त्रैविध्यात् त्रिविधा | आदिमध्यान्तेषु द्रुतो लयश्चेत् ; तदैका ; आदिमध्यान्तेषु मध्यो लयश्चेत् ; तदापरा ; आदिमध्यान्तेषु विलम्बितो लयश्चेत् ; तदान्या । आदौ विलम्बितलयः ; मध्ये मध्यलयः ; अन्ते द्रुतलयः; तदा स्रोतोगता; अयमेकः प्रकारः । अस्या अन्यत्प्रकारद्वयमाहअन्येति । गीतस्य भागत्रयं हत्वा प्रथमभागे विलम्बितो लयः ; द्वितीयभागे मध्यलयः ; तृतीयभागे द्रुतलयः; तदा अन्या स्रोतोगता। पूर्वभागे विलम्बितलयः ; मध्यभागे मध्यलयः ; अन्तेऽपि द्रुतलयस्तदा अपरा स्रोतोगता । पूर्वभागे द्रुतलयः ; मध्यभागे मध्यलयः ; अन्ते विलम्बितलयस्तदा गोपुच्छा। आद्ये द्रुतलयः; मध्ये विलम्बितलयः; अन्ते विलम्बितलयस्तदा अपरा गोपुच्छा । मध्यलयः प्रथमम् ; विलम्बितलयो मध्ये ; अन्ते विलम्बितलयस्तदा अपरा गोपुच्छा इति गोपुच्छायास्त्रयो भेदाः ॥ -४६-४९ ॥ ..
(क०) ग्रहान् लक्षयति-समोऽतीत इत्यादिना । ग्रहणं ग्रह इति भावे ; " पुंसि संज्ञायां घः प्रायेण" (पा. ३. ३. ११८) इति घप्रत्यये
Scanned by Gitarth Ganga Research Institute