________________
संगीतरत्नाकरः लयप्रवृत्तिनियमो यतिरित्यभिधीयते ॥ ४६ ।। समा स्रोतोगता चान्या गोपुच्छा त्रिविधेति सा । आदिमध्यावसानेषु लयैकत्वे समा त्रिधा ॥४७॥ लयत्रैधादादिमध्यावसानेषु यथाक्रमात् । चिरमध्यद्रुतलया तदा स्रोतोगता मता ॥ ४८ ।। अन्या विलम्बमध्याभ्यां मध्यद्रुतवती परा । द्रुतमध्यविलम्वैः स्याद्गोपुच्छा द्रुतमध्यभाक् ॥ ४९ ॥
द्वितीयान्या भवेन्मध्यविलम्बितलयान्विता । प्रमाणभेदात् लयत्रये योजिते सति द्रुते द्रुतः ; द्रुते मध्यः ; द्रुते विलम्बितः । यथा मध्ये द्रुतः ; मध्ये मध्यमः ; मध्ये विलम्बितः ; तथा विलम्बिते द्रुतः ; विलम्बिते मध्यः ; विलम्बिते विलम्बित इति । अयमेवानेकधेत्यस्यार्थः । एवं तालगतस्यैव लयस्य गीतादावुपयोगः, नाक्षरादिगतस्येत्याह-लयोऽक्षरे पदे वाक्ये योऽसौ नानोपयुज्यत इति । अक्षरे लयो द्रुतः ; पदे यो मध्यः ; वाक्ये लयो विलम्बितः । तस्य संगीतोपकारकत्वाभावादिति भावः ॥ ४४, ४५- ।।
(सु०) लयं लक्षयति--क्रियेति । तालक्रियानन्तरं या विश्रान्तिः स लयः । स त्रिविधः ; द्रुतो मध्यो विलम्बश्चेति । तेषु अतिशयेन शीघ्रोऽत्यन्तविश्रान्तिः द्रुतः । द्रुतात् द्विगुणो मध्यः; तद्विगुणो विलम्ब इति । मार्गमेदादिति । ध्रुवादयो हि मार्गाः पूर्वमुक्ताः । तेषां भेदाः विलम्बितत्वं द्रुतत्वं मध्यत्वं चेति । ननु अक्षरादिष्वपि लयोऽस्ति ; स कथं नोच्यते? तत्राहलय हति । अत्र संगीतशास्त्रेऽनुपयोगान्नोक्त इत्यर्थः ॥ ४४, ४५- ॥
(क०) अथ लयाश्रितानां यतीनां लक्षणमाह-लयप्रवृत्तीत्यादि। लयैकत्व इति । एकलयत्व इत्यर्थः । लयत्रैधादिति पूर्ववाक्येन संबन्धः । समाया यतेस्त्रैविध्ये हेतुभावेन । त्रिविध्यमिति त्रिशब्दात् “एकाद्धो
Scanned by Gitarth Ganga Research Institute