________________
संगीतरत्नाकरः गुरूण्यष्टौ लघून्यष्टौ वस्त्वेककलमद्रके । स्वरागयोनिजातेस्तु न्यासेऽपन्यासनेऽथवा ॥ ६१॥
संयासेंऽशेऽथवा न्यासः सर्वगीतस्थवस्तुनः । यस्मिन्निति चतुर्वस्तु । त्रीणि वस्तूनि यस्मिन्निति त्रिवस्तु । शीर्षकमिति । गीताङ्गम् । त्रिवस्तुन्येवेति । चतुर्वस्त्वादौ न कर्तव्यमित्यर्थः ।। ५७-६०॥
(सु०) कुलकं छेद्यकमिति । वक्ष्यमाणानां वस्तूनामेकवाक्यत्वं चेत्तदा कुलकम् | वतूनां भिन्नवाक्यत्वं चेत्तदा छेद्यकमिति । ते ; कुलकच्छेद्यके प्रत्येकं त्रिधा ; नियुक्तम् ; पदनियुक्तम् ; अनिर्युक्तमिति । वक्ष्यमाणैरिति । वक्ष्यमाणैः सर्वे रागैर्युक्तं निर्युक्तम् । अङ्गैविना केवलं स्तुतिभिर्बद्धं पदनिर्युक्तम् । उपोहनप्रत्युपोहनशून्यत्वमनिर्युक्तम् । अत्रोपोहनप्रत्युपोहननिषेधात् इतरनिषेधस्य, ‘शेषाभ्यनुज्ञाविशेष्यत्वात् ' इति न्यायेनान्येषामङ्गसङ्गानामनुमतिः । एवं सर्वेषां साधारणान् भेदानुक्त्वा प्रथमनिर्दिष्टं मद्रकं विभज्य लक्षयति -तत्रेति । मद्रकं त्रिधा ; एककलाद्येन विधिना प्रकारेण एककलमद्रकम् ; द्विकलमद्रकम् ; चतुष्कलमद्रकं चेति । पुनरप्येतन्मद्रकं द्विधा ; चतुर्वस्तु ; त्रिवस्तु चेति । तत्र वक्ष्यमाणं शीर्षकाख्यं मद्रकं त्रिवस्तुन्येव बोध्यत इति विख्यातम् ॥ ५७-६० ॥
(क०) एककलमद्रके वस्तुप्रमाणमाह---गुरूण्यष्टौ लघून्यष्टाविति । स्वरागयोनिजातेरिति । अत्र स्वशब्देन मद्रकादिकमुच्यते । तस्य रागः तस्य योनिः कारणं जाति: षाड्ज्यादिः, तस्या न्यासापन्याससंन्यासेष्वेकत्र न्यासः कर्तव्य इत्यर्थः । अनेन मद्रकादीनि ग्रामरागोपरागेष्वेकतमेन रागेण गातव्यानीति सूचितं भवति । तेषामेव ताभ्यो जातत्वात । सर्वगीतस्थवस्तुन इत्यनेन, स्वरागेत्यत्र स्वशब्दस्य मद्रकैकपरताप्रतीतिमपाकरोति । सर्वाणि च तानि गीतानि मद्रकादीनि चतुर्दश गीतानि, तेषु तिष्ठतीति तत्स्थम् , तच्च तद्वस्तु चेति तथोक्तम् । अत्र वस्तुन इति
Scanned by Gitarth Ganga Research Institute