________________
२३
तदधस्तात्, 'न्यस्याल्पमाद्यान्महतः' इत्यादिना वक्ष्यमाणेन प्रकारेण प्रस्तारे कृते सति ये भेदा उत्पद्यन्ते ते खण्डाभिधाः खण्डतालसंज्ञा: । देशीतालप्रपञ्चेनेति । देशीतालविस्तारेण । तानपीति । तेषु कांश्चिदित्यर्थः । व्याहरामह इति । " वर्तमानसामीप्ये वर्तमानवद्वा " (पा. ३-३-१३१) इति लटः प्रयोगः । " अस्मदो द्वयोश्च " ( पा. १-२-५९) इति बहुवचनप्रयोगश्च । एवं सकलास्तालाः चतुरश्रत्र्य श्रसंकीर्णखण्डभेदेन चतुर्विधा उक्ताः । मिश्रत्वेनान्यो भेदो मुनिना अभिहितः । यथा
पश्यमस्तालाध्यायः
" अनयोर्मिश्रभावाच्च मिश्रस्तालः प्रकीर्तितः ।
षट्पितापुत्रकश्चैव पञ्चपाणिः स चेप्यते । " (नाट्य० ३१-१२, १३)
इति ;
" तालादि मिश्रभेदेऽन्यः संपक्केष्टाकसंज्ञितः
39
( ,,, ३१-२२) इति च । तन्मते षट्पितापुत्रकसंपक्केष्टा कौ मिश्रौ । अतस्तद्भेदा मिश्रत्वेनावगन्तव्याः । ग्रन्थकारेण तु तन्मतानुसारिणा तावपि यभेदत्वेोक्तौ । अतोऽनेन चातुर्विध्यमेव दर्शितम् ॥ ३९-४२॥
(सु०) संकीर्णास्तालान्निरूपयति-- युग्मस्येति । युग्मस्य चच्चत्पुटस्य ये त्रयो भेदाः, एककलो द्विकलश्चतुष्कल इति । अयुग्मस्य चाचपुटस्य षद; एककलो द्विकलश्चतुष्कल इति त्रयः ; मुनिना मतङ्गेन च त्रयः प्रोक्ताः ; चतुर्विंशतिगुरुः ; अष्टाचत्वारिंशद्गुरुः ; षण्णवतिगुरुश्चेति; एवं षट् । तेषां नवानां भेदानामन्योन्यसंकरवशेन संकीर्णा बहवो मताः । तदुक्तं भरतेन ; " तालो धन इति प्रोक्तः कलापातलयान्वितः ।
कालस्तस्य प्रमाणं हि विज्ञेयं तालयोक्तृभिः || ” ( नाट्य० ३१-१) इति । मतान्तरमाह – अन्य इति । गान्धवं मार्गे गीते पचैव संकीर्णास्ताला इति । तानेव लक्षयति — पश्चेति । एकः पञ्चकलः ; एकः सप्तकल: ; एको नवकलः ; एको दशकलः ; एक एकादशकलश्चेति । केचिच्चत्वारस्ताला इत्याहुः । तान् लक्षयति-ताला इति । एकश्चतुर्दशकलः ; अन्यः पञ्चदशकलः ;
Scanned by Gitarth Ganga Research Institute