________________
२४
संगीतरत्नाकरः आवृत्तिः पादभागादेः परिवर्तनमिष्यते । विश्रान्तियुक्तया काले क्रियया मानमिष्यते ।। ४३ ॥ क्रियानन्तरविश्रान्तिर्लयः स त्रिविधो मतः ।। द्रुतो मध्यो विलम्बश्च द्रुतः शीघ्रतमो मतः ।। ४४ ॥ द्विगुणद्विगुणो ज्ञेयो तस्मान्मध्यविलम्बितौ । मागेभेदाच्चिरक्षिप्रमध्यभावैरनेकधा ॥ ४५ ॥
लयोऽक्षरे पदे वाक्ये योऽसौ नात्रोपयुज्यते । षोडशकलः; सप्तदशकलश्चेति । चञ्चत्पुटादिभेदास्त्विति। चच्चत्पुटादीनां पूर्वोक्तानां नवानां खण्डाख्या भेदाः सन्ति ; ता: देशीतालेषु वक्ष्यामः । प्रपञ्चेन, विस्तरेणेति ॥ -३९-४२ ॥
(क०) अथ तालानां परिवर्तादीन् लक्षयति---आवृत्तिरित्यादि । 'पादभागादेः' इत्यादिशब्देनावयवी तालो गृह्यते । तस्य आवृत्तिः अभ्यास:; पुनः पुनः करणमिति यावत् । परिवर्तनमिति लक्षणीयं पदम् । विश्रान्तियुक्तयेति । विश्रान्तिः क्रियाविरतिः, तद्युक्तया । काले क्रियया; काले पञ्चलघ्वक्षरोच्चाराद्युपहिततपनपरिस्पन्दोपाधिभेदभिन्ने द्रव्यविशेषे क्रियया पूर्वोक्तया निःशब्दया सशब्दया वा । मानम् ; तालानां प्रमाणम् ; इष्यते; इष्टं भवतीत्यर्थः ॥ ४३ ॥
(सु०) “कलापातलयान्वित ; ताल: कालः" इत्युक्तम् । तत्र किमिदमिह कलापातादिलयप्रसिद्धमित्यपेक्षायामाह-आवृत्तिरिति । पादभागाः पूर्वमुक्ताः । चच्चत्पुटे चत्वारः ; चाचपुटे त्रयः ; आदिशब्देन लघुगुरुप्लुताः । तेषां परिवर्तनम् ; एकं समाप्यान्यस्यारम्भ आवृत्तिरित्युच्यते । केचित् विश्रान्तियुक्तया काले तालरूपक्रियया मानमित्युच्यते ॥ ४३ ॥
(क०) क्रियानन्तरविश्रान्तिरिति । क्रियायाः पूर्वोक्ताया अनन्तरा संनिहिता या विश्रान्तिः विरतिः स लय इत्युच्यते । द्रतः शीघ्रतमो मत
Scanned by Gitarth Ganga Research Institute