________________
संगीतरत्नाकरः युग्मस्य ये त्रयो भेदाः षड्वायुग्मस्य कीर्तिताः ।। ३९ ॥ तेषामन्योन्यसंसर्गात्संकीर्णा बहवो मताः । अन्ये पश्चैव संकीर्णान् गान्धर्वेऽभिदधुर्बुधाः ॥ ४० ॥ पश्च सप्त नवापि स्युर्दशैकादश तत्कलाः । तालाश्चत्वार इत्यन्ये चतुर्दशकलादिकाः ॥ ४१ ॥ चच्चत्पुटादिभेदास्तु सन्ति खण्डाभिधाः परे ।
देशीतालप्रपश्चेन तानपि व्याहरामाहे ।। ४२ ॥ नियमादिकं कुर्वन् गायेत् । द्वितीयो गाता कांस्यतालधरः सन् यथा प्रमादो न जायेत तथा मुख्यगातुः साहाय्यकं कुर्यादिति । अन्यथा प्रमादे सति न केवलमदृष्टफलाभावः ; किं तु प्रत्यवायोऽपि भवतीति भावः ॥ -३८- ।।
___ (सु०) एवं मार्गतालस्वरूपं कलाविधिं च कथयित्वा तालधारणप्रकारं प्रतिज्ञाय कथयति-गान्धर्व इति । गान्धर्वे शुद्धगानमार्गज्ञः कश्चन कांस्यघटिततालरी च गायकस्य सहायभूतः कर्तव्य: ; गानव्यग्रतया तालस्खलनप्रमादनिवृत्त्यर्थम् ॥ -३८-॥
___ (क०) युग्मस्येत्यादि । युग्मस्य चच्चत्पुटस्य ये त्रयो भेदाः; एककलद्विकलचतुष्कलाख्याः । अयुग्मस्य ; चाचपुटस्य षड्भेदा एककलद्विकलचतुष्कलास्त्रयः, ततोऽपि द्विगुणगुणास्त्रयश्च । तेषामिति । पूर्वोक्तानां नवानां भेदानाम् । तत्कला इति । तेषां संकीर्णानां कला गुरुरूपाः । चतुर्दशकलादिका इति । चतुर्दशगुर्वात्मक एको भेदः । पञ्चदशगुर्वात्मको द्वितीयः । षोडशगुर्वात्मकस्तृतीयः । सप्तदशगुर्वात्मकश्चतुर्थः । एवं चत्वारः संकीर्णका इत्यन्ये वदन्ति । चच्चत्पुटादिभेदास्त्विति । आदिपदेन चाचपुटादयो गृह्यन्ते । तेषां भेदाः; आदौ चच्चत्पुटादेः स्वरूपं लिखित्वा
Scanned by Gitarth Ganga Research Institute