________________
पश्चमस्तालाध्यायः
गान्धर्वमार्ग कुशलः कांस्यतालधरोऽपरः ॥ ३८ ॥ गातुः सहायः कर्तव्यः प्रमादविनिवृत्तये ।
२१
;
ननु चैककलादिषु तालभेदेषु शम्यादिपातत्रयस्यैव योगो दर्शितः । ध्रुवपातस्य तु योगो न क्वचिदपि दर्शितः । अतस्तदुद्देश लक्षणे निरर्थके स्यातामिति चेत्, न ; तस्य ध्रुवमार्गे प्रयोज्यत्वेन सार्थकत्वात् । तथाहि ; एकमात्रिक कलासंमितस्य ध्रुवमार्गस्य चित्रादिमार्गेष्वनुस्यूतत्वेन यदा गाता गीतादिकं ध्रुवमार्गेण योजयितुमिच्छति तदा ध्रुवपातः प्रयोक्तव्य इति मन्तव्यम् । अतस्तयोः पातमार्गयोः कूटस्थत्वेन सकलतालानपायात् नित्यतया ध्रुवत्वमवगन्तव्यम् । अत एव पृथक्प्रयोगोऽपि न दर्शितः । दर्शयिष्यते चोपोहनेषु ध्रुवपातस्य प्रयोगः । मतान्तरोक्ते ध्रुवासारिते यथाक्षरासारिते च ध्रुवमार्गस्यापि प्रयोगश्च ; अतः तदुद्देशलक्षणयोः आनर्थक्यं नाशङ्कनीयम् ॥ ३७ ॥
(सु० ) संपक्केष्टाकस्येति । षपितापुत्रके उक्ताः कलाः संपक्केष्टा के ज्ञातव्याः । केवलमस्य संनिपातो नास्ति । योनिवदिति । अस्य संपक्केष्टाकस्य उद्घट्टस्य च द्विकले चतुष्कले च भेदद्वये योनिवत् स्वकारणवत् कलाविधिः । द्विकले चतुष्कले चोट्टे द्विकल चतुष्कलचा चपुटवत् कलाविधिः । द्विकले चतुष्कले च संपक्केष्टा के द्विकलचतुष्कलषपितापुत्रकवत् कलाविधिरिति ॥ ३७॥
"
(क०) गान्धर्व इत्यादि । वक्ष्यमाणानि मद्रकादीनि चतुर्दश गीतानि प्रागुक्ताः । षाड्ज्यादिजातयो ग्रामरागादयश्च षडिधा रागा गान्धर्वशब्देनोच्यन्ते । तस्मिन् गान्धर्वे मार्गे कुशल: ; चित्रादिमार्गेषु कुशल:, कांस्यतालधरः अपरः गातुः सहायः इत्यनेनापि गातृत्वं प्रतीयते । तत्सहायकरणे प्रयोजनमाह - प्रमादविनिवृत्तय इति । अयमर्थः -- गान्धर्व - स्यात्यन्तनियतत्वेनादृष्टफलसाधनत्वात् । गान्धर्वप्रयोगे मुख्यो गाता अङ्गुलि -
Scanned by Gitarth Ganga Research Institute