________________
४९८
संगीतरत्नाकरः हस्तकोणपहारज्ञो गीतवादनकोविदः ॥ १२१३ ॥ यतिताललयाभिज्ञः पाटज्ञः पञ्चसञ्चवित् । दशहस्तगुणोपेतः पात्राभिप्रेतवादकः । ॥ १२१४ ॥ आतोद्यध्वनितत्त्वज्ञः समादिग्रहवेदिता। गीतवादननृत्यस्थच्छिद्रच्छादनपण्डितः ॥ १२१५ ।। ग्रहमोक्षप्रदेशज्ञो गीतनृत्तप्रमाणवित् । वाद्ये समस्तभेदज्ञो रूपरेखान्वितस्तथा ॥ १२१६ ॥ उद्धट्टनपटुः सर्ववाद्यभेदविवेचकः । नादवृद्धिक्षयापत्तिकोविदो वादको वरः ॥ १२१७ ॥ गुणैः कतिपय नः सर्वा वादकोऽधमः ।
इति वादकगुणदोषा: तेषां लक्षणमाह-स्यादिति । गीतगतगुरुलघ्वक्षराणामनुगमन्वितम् , अक्षरसमम् । गीतस्य अङ्गानि ग्रहमोक्षादीनि यदनुगच्छति, तदङ्गसमम् । गीतस्य ग्रहै: समपाण्यादिभिः समं, पाणिसमम् । तालानुगं, तालसमम् । यतेरनुगं, यतिसमम् । लयानुगं, लयसमम् । न्यासानुगं, न्याससमम् । अपन्यासानुगम् , अपन्याससमम् । एतैर्गुणैः विपर्ययेण दोष: स्यात् ॥ १२०७-१२१२-॥
इति वाद्यगुणदोषाः (क०) अथ वादकगुणदोषानाह-हस्तकोणप्रहार इत्यादि । उद्घट्टनपटुरिति । उद्धट्टनं नाम पाटाक्षरोच्चारणम् । उद्धट्टनेति भाण्डिका व्यवहरन्ति । उक्तगुणयुक्तो वादको वरः । कतिपयैर्गुणैर्हीनो मध्यः । सर्वैर्गुणैहीनोऽधमः स्मृतः ॥ -१२१३-१२१७- ॥
इति वादकगुणदोषाः (सु०) वादकगुणदोषानाह-हस्तेति पश्चसचवित् गीतवाद्यनृत्तग्रहमोक्षरन्ध्राणि पञ्च वेत्तीति पञ्चसंचवित् , तथाविधः । वादस्य वृद्धिक्षयप्राप
Scanned by Gitarth Ganga Research Institute