________________
षष्ठो वाद्याध्यायः
रक्तं विरक्तं मधुरं समं शुद्धं कलं घनम् ।
स्फुटहार : सुभरं विघुष्टं च गुणैरिति ॥ १२०७ ॥ दशभिः संयुतं वाद्यमुक्तं सोढलमूनुना । अन्वर्थान्यत्र नामानि समं त्वष्टविधं मतम् ॥ १२०८ ।। अक्षरायङ्गपूर्व च तालादि यतिपूर्वकम् । लयादि न्यासापन्यासपूर्वे पाणिसमं तथा ।। १२०९ ॥ स्यादक्षरसमं गीतगुरुलघ्वक्षरानुगम् । गीतस्य ग्रहमोक्षादीन्यङ्गान्यत्रेति यत्पुनः || १२१० ॥ स्यात्तदङ्गसमं तालानुगं तालसमं मतम् ।
यतेर्लयस्य न्यासस्यापन्यासस्य च साम्यतः ॥ १२११ ॥ यत्यादिपूर्वकं ज्ञेयं क्रमात्समचतुष्टयम् ।
गीतग्रहैः पाणिसंज्ञैः समं पाणिसमं मतम् ।। १२१२ ॥ वाद्यस्यैते गुणाः प्रोक्ता दोषः स्यात्तद्विपर्ययः ।
वाद्यगुणदोषाः
४९७
(क०) अथ वाद्यगुणानाह - रक्तमित्यादि । तत्र समस्याष्टौ भेदान् दर्शयति - अक्षरादीत्यादि । गितग्रहैः ; समातीतानागतैः । पाणिसंज्ञैरिति । क्रमात् ; समपाण्यवपाण्युपरिपाणिसंज्ञकैः ॥ १२०७-१२१२- ॥
वाद्यगुणदोषाः
(सु० ) वाद्यगुणदोषानाह - रक्तमिति । रक्तादिभिः विघुष्टान्तैः दशभिर्गुणैः युक्तं वाद्यं भवति । तेषां नाम्नैव लक्षणं ज्ञायते । रक्तम्, रञ्जकम् | विरक्तम, विभिन्नम् | मधुरम्, माधुर्यम् । समम, वक्ष्यमाणमष्टविधम् । शुद्धम्, असंसृष्टम् । कलम, सूक्ष्मम् । घनं, सारम् । स्फुटप्रहारः, व्यक्तध्वनि: । सुभरम्, सुरागम् । विघुष्टम्, गम्भीरमिति । समं त्वष्टप्रकारं अक्षरसमादिभेदेन ।
63
Scanned by Gitarth Ganga Research Institute