________________
४९६
संगीतरत्नाकर:
क्षिप्ताभिस्तादृशचद्रवलया बलिभिर्युतः ॥ १२०३ ॥ वक्षोये जानुनोर्मध्ये यद्वा संधार्य वाद्यते ।
अयं च करशाखायै रालालिप्तो विघृष्यते ।। १२०४ ॥ कवचास्थडरटाः पाटाः पाटहावेह संमताः । सप्ता देवमुनयो देवताः शार्ङ्गिणोदिताः ।। १२०५ ।। इति पट्टवाद्यम्
सन्त्यन्यान्यपि वाद्यानि लोके भूयांसि यानि च । तेषु विस्तारसंत्रासादुदास्ते सोढलात्मजः ।। १२०६ ॥ इति घनवाद्यलक्षणम्
हस्तप्रमाणो भवेत् । ऊर्ध्वमधश्व स्थितयोः द्वयोः लोहकृतयोः सरिकयोः त्रिवृद्रज्जुतुल्ययोः निक्षिप्ताभिः लोहमयक्षुद्रवलयावलिभिः संयुक्तः पट्टः कर्तव्य इति संबन्ध: । वक्षसोऽये जानुमध्ये वा धारयित्वा वादयेत् । अयं च पट्टः, रालालिप्तः, राला वृक्षविशेषः, तस्य निर्यासेन लिप्तः, कराड्गुल्ययैः विघृष्यते । अस्य कखचा: थडरटा: पाटहाश्च पाटाः । अत्र सप्त देवमुनयो देवताः ॥ - १२०० - १२०५ ॥
इति पट्टवाद्यम्
( क ० ) अन्यान्यपि वाद्यानि लोकानुसारतो द्रष्टव्यानीत्याहसन्तीत्यादि ॥ १२०६ ॥
इति घनवाद्यलक्षणम्
(सु० ) अन्येषु लोकप्रसिद्धेषु वाद्यभेदेषु विस्तरभिया शार्ङ्गदेव उदासीनो भवति ॥ १२०६ ॥
इति घनवाद्यलक्षणम्
Scanned by Gitarth Ganga Research Institute