________________
४९५
षष्ठो वाद्याध्यायः सर्पाकृतिरथो निम्ना कांस्यजा लोहजाथवा । शुक्तिस्यङ्गुलविस्तारा सार्धहस्तद्वया मता ॥ ११९८ ॥ तिर्यग्रेखाराजिता च मृगशृङ्गोपमेन सा । ऋजुना लोहकोणेन सरेखेन विघर्षणात् ॥ ११९९॥ वाद्यते किरिकिट्टेति पाटा यक्षास्तु देवताः । यतिमात्रावबोधेऽत्रेत्युक्तं निःशङ्करिणा ॥ १२०० ।। किरिकिट्टकमित्युक्तं तल्लोके रुद्रवल्लभम् ।
इति शुक्तिवाद्यम्
श्रीपर्णीदारुजः पट्टश्चतुरश्रायतो भवेत् ।। १२०१ ॥ द्वात्रिंशदगुलो दैर्येऽन्यैरुक्तस्त्रिंशदगुलः । विस्तारो हस्तमात्रः स्यादृर्वाधःस्थितयोर्द्वयोः ।। १२०२ ॥ लोहमय्योः सरिकयोस्त्रिद्रज्जूपमायुजोः ।
(सु०) शुक्तिवाद्यं लक्षयति-सपैति । सर्पवत् आकृतिं दधती निम्ना नीचा कांस्येन लोहेन वा कृता व्यङ्गुलायामा सार्धहस्तद्वयदीर्घा तिर्यक्रेखया विराजिता शुक्तिः स्यात् । सा च ; शुक्तिरपि, मृगशृङ्गचत् उपमा आकारो यस्य, तथाविधेन ऋजुना सरलेन लोहकोणेन रेखासंयुक्तेन घर्षणेन वादनीया । किरिकिट्टेत्यादयः पाटाः । देवतास्तु यक्षा । अत्र ; एतस्मिन् वाद्ये केवलं यतिज्ञानमेव प्रयोजनम् । इदमेव वाद्यं लोके किरिकिट्टकमित्युच्यते ॥ ११९८-१२००- ॥
इति शुक्तिवाद्यम्
(सु०) पट्टवाद्यं लक्षयति-श्रीपर्णीति । श्रीपर्णीवृक्षात् जातः, आयत:, चतुरश्रः, द्वात्रिंशददगुलो दीर्घः । मतान्तरेण त्रिंशदङ्गुलदीर्घः । विस्तार:
Scanned by Gitarth Ganga Research Institute