________________
४९४
संगीतरत्नाकरः खादिरं घनवेणूत्थं यद्वा कम्राचतुष्टयम् ॥ ११९२ ।। श्लक्ष्णं द्वयङ्गुलविस्तारं द्वादशाङ्गुलदैर्घ्यकम् । मध्ये पिण्डो यथाशोभं किंचिन्यूनस्ततोऽन्तयोः ।। ११९३ ।। यस्य तत्कम्रिकावायं तत्र द्वे द्वे तु कम्रिके । एकैकहस्तन्यस्ते ये तयोरेकैककम्रिकाम् ॥ ११९४ ।। मध्यमाङ्गुष्ठयोर्मूले धृत्वा प्रान्ते तयोः पुनः । अपरामपरां धृत्वा शिथिलां वादयेद्धिया ।। ११९५ ।। कम्पेन मणिवन्धस्य कम्रिकावादनं मतम् । पाटा: किटकिटामुख्यास्तत्र पाटान्तराण्यपि ॥ ११९६ ॥ कम्राणामन्तरं कृत्वानामया दक्षिणस्थया । तलघातागुष्ठमुष्टेवामस्येत्यपरे जगुः ॥ ११९७ ॥
इति कमालक्षणम् (सु०) कमां लक्षयति-खादिरमिति । खदिरेण जातं खादिरम् । घनवेणूत्थम् , घनोऽन्त:सारो यो वेणु:, तस्माजातं वा । श्लक्ष्णं मसृणम् ; द्वयङ्गुलविस्तारम् ; द्वयङ्गुलायाम, द्वादशाङ्गुलदीर्घ कम्राचतुष्टयं कर्तव्यम् । पिण्डस्तु मध्ये शोभामनतिक्रम्य क्रमेण कार्यः । प्रान्तयोरन्ते किंचिद्धीनः । यस्यैवं लक्षणं स्यात् तत् कम्रिकावाद्यं ज्ञेयम् । तत्रेति । तासु चतुर्यु कम्रासु मध्ये, द्वे द्वे कने ये प्रतिहस्तं विक्षिप्येते तयोरेकैकां कम्रां मध्यमाङ्गुष्ठयोः मूले धृत्वा प्रान्तयोधृत्वा च अपरां कमां बुद्धया शनैर्वादयेत् | मणिबन्धस्य कम्पने च कम्रावादनं मतम् । तत्र पाटा: किटकिटादयो मुख्या: । मतान्तरेण वादनप्रकारमाह-कम्राणामिति । कम्राणामन्तरं विधाय दक्षिणानामिकया वामस्याङ्गुष्ठस्य मुष्टे: तलेन प्रान्ते च इत्यन्ये अवादिषुः ॥ -११९२-११९७ ॥
इति कम्रालक्षणम्
Scanned by Gitarth Ganga Research Institute