________________
४९३
षष्ठो वाद्याध्यायः सुघनाः मूक्ष्मजातीयवदरीबीजसंमिताः । शिरःसुषिरविन्यस्तरजवः क्षुद्रघण्टिकाः ॥ ११८८ ।। ताश्च घर्घरिका लोके भाष्यन्ते पर्मरास्तथा । ताभिर्घर्घरभेदानां कृतिः पेरणिनर्तने ।। ११८९ ।।
इति क्षुद्रघण्टिकालक्षणम् कांस्यजा हस्तमात्रा स्यात्पिण्डे त्वामुला घना । जयघण्टा समा श्लक्ष्णा वृत्ता प्रान्ते द्विरन्ध्रभाक् ।। ११९० ।। धृत्वा तद्रन्ध्रविन्यस्तरज्जौ तां वामपाणिना । दक्षिणे दक्षिणस्थेन दृढकोणेन वादयेत् ॥ ११९१ ॥ डेंकारवहुलाः पाटाः सर्वेऽस्याः शाङ्गिणोदिताः ।
इति जयघण्टालक्षणम् सूक्ष्मबदरीबीजप्रमाणा शिखाच्छिद्रे विन्यस्तदोरिका क्षुद्रघण्टिका भवन्ति । ताश्च लोके घरिका इत्युच्यन्ते । तथा मर्मरा इत्यपि । घर्घरविशेषाभि: ताभिः पेरणीनां नर्तकविशेषाणां वक्ष्यमाणानां नर्तने कृतिः प्रयोजनम् ॥-१९८७-११९॥
इति क्षुद्रघण्टिकालक्षणम्
(सु०) जयघण्टा लक्षयति-कांस्यजेति । कांस्यविरचिता हस्तप्रमाणा, पिण्डे तु अर्धाङ्गुलमिता, घना; निबिडा, समा; समानाकारा, श्लक्ष्णा ; मसृणा, वृत्ता ; वर्तुला, प्रान्ते द्विरन्ध्रभाक्, रन्ध्रद्वयवती च जयघण्टा कार्या । तद्रन्ध्रविन्यस्तरज्जो ; तस्या रन्ध्रे विन्यस्तायां रज्जौ, तां ; जयघण्टा वामपाणिना धृत्वा, दक्षिणप्रदेशे दक्षिणहस्तस्थितेन कोणेन वादयेत् । अस्या जयघण्टायाः पाटा: सर्वे डेंकारप्रचुरा: ॥ ११९०-११९१- ॥
इति जयघण्टालक्षणम्
Scanned by Gitarth Ganga Research Institute