________________
४९२
संगीतरत्नाकरः अर्धाङ्गुलमिते पिण्डे घण्टा कांस्यमयी भवेत् ॥ ११८३ ।। उच्छ्रायेऽष्टाङ्गुला वक्त्रे विशाला मूलतोऽल्पिका । सा च प्रासादसंबद्धा शलाकाकारधारिणी ॥ ११८४ ॥ मूले दण्डं त्रिशृङ्गाग्रं दधती मूलसंयुता। षडङ्गुलायतं सार्धागुलपिण्डं च लम्बितम् ॥ ११८५ ॥ लोहजं जालकं गर्भे दधानां तामधोमुखीम् । दण्डे धृत्वा टणत्कारवहुलं वादयेत्सुधीः ॥ ११८६ ॥ सा सर्वदेवता तज्ज्ञैर्वाद्यते देवतार्चने ।
इति घण्टालक्षणम् तैक्ष्णगोलकगर्भाः स्युः कांस्योद्भवपुटद्वयाः ॥ ११८७ ॥
(सु०) कांस्यतालं लक्षयति–नलिनीति । कमलिनीपत्रवत् समानाकारौ त्रयोदशाङ्गुलप्रमाणौ, मुखे द्वयगुलौ, कांस्यात् जातौ कांस्यतालौ कार्यों । तयो: तालयोर्मध्ये अङ्गुलप्रमाणौ निम्नौ नीचौ च कर्तव्यौ । अन्यत्तु तालवद् ज्ञातव्यम् ॥ -११८१-१९८२- ॥
____ इति कांस्यताललक्षणम् (सु०) घण्टा लक्षयति-अर्धाङ्गुलेति । पिण्डे अर्धाङ्गुलमिते, उच्चत्वे अष्टाङ्गुला, कांस्यघटिता मुखे विशाला मूले अल्पा घण्टिका कार्या । सा च प्रासादशलाकाकारा भवेत् । मूले च शृङ्गत्रयसहिताग्रं दण्डं मूलसंलग्नं दधाना घडङ्गुलायामं सार्धाङ्गुलपिण्डं लम्बमानं लौहजालकं गर्भे दधानाम् , तां घण्टाम् अधोमुखी दण्डे धृत्वा वादयेदिति ॥ -११८३-१९८६-॥
इति घण्टालक्षणम् (सु०) क्षुद्रघण्टिकामाह-तक्ष्ण्येति । तीक्ष्णो लोहविशेषः, तज्जातो गोलक: मध्ये गर्भो यस्यां, कांस्यात् जातं पुटद्वयं यासां ता:, कांस्योद्भवपुटद्वयाः
Scanned by Gitarth Ganga Research Institute