________________
षष्ठो वाद्याध्यायः
गुलौ तले || १९८१ ॥
नलिनीदलसंकाशौ कांस्यतालौ समाकृती | Trirat archiयजे मध्ये sofat fast तयोरन्यत्तु तालवत् । पाटा झनकटा मुख्याः सन्ति पाठान्तराण्यपि ॥ ११८२ ।। नारदो देवता चात्रेत्युक्तं सोढलमूनुना । इति कांस्यताललक्षणम्
४९१
"
भवेत् । पिण्डस्तु, यवमात्र: । उत्सेधः ; उच्छ्रायः सार्धांगुलप्रमाणः । समानः श्लक्ष्णो मसृणो रमणीया कृतिश्च तथा कार्या यथा श्रवणयो रमणीयनादो भवति । नेत्रे वस्त्राञ्चलाप्राणि पट्टवस्त्रविशेषाणि, तै: रज्जूकृत्य रज्जुं विधाय रन्ध्रे निवेश्य अग्राणामनिर्गत्यै ग्रन्थि कुर्यात् । ईदृगिति । एवंविधं तालद्वयं विधाय एकं तालं अञ्जलै वेष्ट्य तर्जन्या वामाङ्गुष्ठेन च वेष्टितं तालमाक्रम्य पाणितलस्य मध्यस्थले धृत्वा, दक्षिणहस्तस्य तर्जन्या अङ्गुष्ठेन च रज्जुं वेष्टयित्वा द्वितीयं तालं पाणितलमध्ये लम्बमानं तिर्यङ्मुखं धारयित्वा, अन्यस्य तालस्य मध्यं ताडयेत् । अल्पेति । उभयोस्तालयोर्मध्ये अल्पध्वनिः शक्तिः, बहुध्वनिः शिवः शिवतालेन ताड्यमाने सति स्निग्धो घनो निबिडो नादो जायते । शक्तौ अस्निग्धायामल्प इति । वामेनेति । वामेन पाणिना शक्तिं धारयेत् । दक्षिणेन पाणिना शिवम् । एवंकृते अश्वमेधफलं प्राप्नोति । अन्यथा दोषं प्राप्नुयादिति । ऊर्ध्वाङ्गुल्या तस्य नादस्य धृतिः स्तम्भनं द्रुतत्वादिसिद्धये यत्क्रियते सा कल्पनेत्युच्यते । अस्य तालस्य अन्यत् कार्य तालधारणमिति ॥ ११७० - १९८० - ॥
इति ताललक्षणम
(क० ) अथ कांस्यतालादीनां लक्षणानि ग्रन्थत एव सुबोधानि । तत्र कम्रिकापट्टवाद्ययोर्दारवत्वे कांस्यजत्वेऽपि मूर्तिरूपत्वाद्धनवाद्यत्वमेवेत्यवसेयम् ॥ ११८१ - १२०५ ॥
इति कांस्यताललक्षणम्
Scanned by Gitarth Ganga Research Institute