________________
४९०
संगीतरत्नाकरः शिवे स्निग्धे घनो नादः शक्तौ स्यात्तद्विपर्ययः । वामेन धारयेच्छक्ति शिवं दक्षिणपाणिना ॥ ११७८ ॥ अश्वमेधफलं चैव प्राप्नुयाद्दोषमन्यया। देवता तुम्बरुर्युग्मे शक्तिः शक्तौ शिवे शिवः ॥ ११७९ ॥ द्रुतादिसिद्धथै तन्नादधृतिरूद्मशुलीकृता । कल्पनेत्युच्यते कार्यमस्य स्यात्तालधारणम् ॥ ११८० ॥ निःशङ्कशार्ङ्गदेवेन पाटाः सर्वेऽत्र कीर्तिताः ।
इति ताललक्षणम् शेषः । तत्र तालं लक्षयति-कांस्यज इत्यादि । द्रुतादीत्यादि । द्रुतादिसिद्धयै; अत्रादिशब्देन लध्वादयो गृह्यन्ते, दूतादिमितकालप्रदर्शनायेत्यर्थः । ऊर्ध्वागुलीकृता; हस्तद्वये तर्जन्यङ्गुष्ठाभ्यां तालद्वयस्य धृतत्वात्तदतिरिक्ताङ्गुल्य ऊर्वीकृतास्ता ऊर्वामुल्यस्ताभिः कृता । तन्नादधृतिः ; तयोस्तालयोः नादस्यानुकरणेनाकारेण दीर्घस्य दीर्घस्य निरोधेनावसानकरणं ह्रस्वीकरणमित्यर्थः । कल्पनेत्युच्यत इति । लक्ष्यप्रधानस्तालधारिभिरिति शेषः । कार्यमस्य स्यात्तालधारणमिति । अस्य तालधारिणः, तालधारणम् ; उक्तप्रकारेण तालयोर्धारणं, तथा तन्नादधारणं च कार्य स्यात् कर्तव्यं भवति । अत्र ताले सर्वे पाटाः कीर्तिता इति । तालस्य तूर्यत्रयमितिहेतुत्वादिति भावः ॥ ११७०-११८०- ॥
इति ताललक्षणम् (सु०) घनवाद्येषु प्रथमं तालं लक्षयति-कांस्यज इति । कांस्यजाते घनवाद्ये प्रथमं कांस्यमग्नौ शोधयेत् । कांस्यात् जातो कांस्यजः, वृत्त: वर्तुल:, सचतुर्थीशद्वयागुलमितमाननं मुखं यस्य ; अस्य, कांस्यतालस्य मध्यः अगुलविस्तारो भवति, निम्नः नीचश्च भवति । मध्यगतं रन्ध्र पादोनगुञ्जाप्रमाणं
Scanned by Gitarth Ganga Research Institute